SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ५७९-५८९] उणादिगणविवृतिः । पाटवीभ्यां सिडिसौ ॥ ५७९ ॥ आभ्यां यथासंख्यं दिसो डिदिसश्च प्रत्ययौ भवतः || पट गतौ । पड्डिस आयुधविशेषः ॥ वक् प्रजननादौ । विसं मृणालम् ॥ ५७९ ॥ तसः || ५८० || पटिवीभ्यां तसः प्रत्ययो भवति || पट्टसस्त्रिशूलम् || वेतसो वानीरः ||५८०|| इणः ॥ ५८१ ॥ एतेस्तसः प्रत्ययो भवति || एतसोध्वर्युः || ५८१ ॥ पीडो नसक् || ६८२ ॥ पींड्च् पाने । इत्यस्मात्किन्नसः प्रत्ययो भवति || पीनसः श्लेष्मा || ५८२ ॥ कुकुरभ्यां पासः || ५८३ ॥ आभ्यां पासः प्रत्ययो भवति || डुकुंग् करणे | कर्पासः पिचुप्रकृतिर्वीरुच्च || कुरत् शब्दे । कूर्पासः कञ्चुकः || ५८३ ।। कलिकुलिभ्यां मास || ५८४ || आभ्यां किन्मासः प्रत्ययो भवति ॥ कलि शब्दसंख्यानयोः । कल्मासं शबलम् || कुल बन्धुसंस्त्यानयोः | कुल्मासमर्धस्विनं माषादि || ५८४ ॥ अलेरम्बुसः || ५८५ ॥ अली भूषणादौ । इत्यस्मादम्बुसः प्रत्ययो भवति || अलम्बुसो यातुधानः | अलम्बुसा नामौषधिः ॥ ५८५ ॥ १०१ लूगो हः || ५८६ ॥ लुनातेर्हेः प्रत्ययो भवति || लोहं सुवर्णादि || ५८६ ॥ कितो गे च ।। ५८७ ॥ कित निवासे | इत्यस्मात् हः प्रत्ययो [भव ] त्यस्य च गे इत्यादेशो भवति || गेहं गृहम् || ५८७ | हिंसेः सिम् च ॥ ५८८ ॥ हिसुप् हिंसायाम् । इत्यस्मात् हः प्रत्ययो [ भव ]त्यस्य च सिमित्यादेशो भवति ॥ सिंहो मृगराजः ॥ ५८८ ॥ कटिपटिमटिलटिललिपलिकल्यनिरगिल गेरहः || ५८९ ।। एभ्योहः प्रत्ययो भवति || कृत् विक्षेपे । करहो धान्यावपनम् ॥ पृश् पालनपूर Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy