SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ५२२-५२८] उणादिगणविवृतिः । पलिसचेरिवः ॥ ५२२ ॥ पलण् रक्षणे । पचि सेचने । इत्याभ्यामिवः प्रत्ययो भवति ॥ पलिवो गोप्ता || सचिवः सहायः ॥ ५२२ ॥ स्पृशेः श्वः पार् च ।। ५२३ ।। __स्पृशत् संस्पर्शे । इत्यस्मात् श्वः प्रत्ययो [भव त्यस्य च पार् इत्यादेशो भवति || पार्श्व स्वाङ्गं समीपं च | पार्थो भगवांस्तीर्थकरः ॥ ५२३ ।। कुडितुड्यडेरुवः ॥ २४ ॥ एभ्य उवः प्रत्ययो भवति ॥ कुडत् बाल्ये च । कुडुवं प्रसृतं हस्तमानं च ॥ तुडत् तोडने | तुडुवमपनेय द्रव्यम् || अड उद्यमे | अडुवः प्लवः||५२४॥ नीतिध्यप्यापादामाभ्यस्त्वः ॥ ५२५ ॥ एभ्यस्त्वः प्रत्ययो भवति ।। णींग प्रापणे । नेत्वं द्यावापृथिव्यौ चन्द्रश्च ।। हुंक् दानादनयोः । होत्वं यजमानः समुद्रश्च ॥ इण्क् गतौ । एत्वं गमनपरम् ॥ ध्ये चिन्तायाम् | ध्यात्वं ब्राह्मणः || प्यड् वृद्धौ । प्यात्वं ब्राह्मणः समुद्रो नेत्रं च ॥ पा पाने । पात्वं पात्रम् || डुदांग्क् दाने | दात्व आयुक्तो यज्वा यज्ञश्च ।। मांक माने । मात्वं प्रमेयद्रव्यम् ॥ ५२५ ॥ __ कृजन्योधिपाभ्य इत्वः ॥ ५२६ ।। एभ्य इत्वः प्रत्ययो भवति || डुक्कंग करणे | करित्वः करणशीलः ।। जनैचि प्रादुर्भावे । जनित्वो लोको मातापितरौ द्यावापृथिव्यौ च । जनित्वं कुलम् ॥ एधि वृद्धौ । एधित्वोनिः समुद्रः शैलश्च ।। पां पाने । पेत्वं तनभूमिप्रदेशामृतं नेत्रं सुखं मानं च ॥ ५२६ ।। पादावम्यमिभ्यः शः || ६२७ ॥ एभ्यः शः प्रत्ययो भवति ॥ पांक रक्षणे । पाशो बन्धनम् ॥ डुदांग्क् दाने । दाशः कैवर्तः ॥ टुवमू उद्गिरणे । वंशो वेणुः ॥ अम गती । अंशो भागः ॥ ५२७ ॥ कृवृभृवनिभ्यः कित् ॥ ५२८ ॥ एभ्यः कित् शः प्रत्ययो भवति ॥ डुइंग् करणे । कृशस्तनुः ॥ वृग्द वरणे । वृशं शृङ्गवेरं मूलकं लशुनं च ।। टुडु,ग्क् पोषणे च | भृशमत्यर्थम् ॥ वन भक्तौ । वश आयत्तः ॥ ५२८ ।। Aho ! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy