SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १२ हेमचन्द्रव्याकरणे [५१५-५२१ मन उदकं च । तदेतत्त्रयमपि तन्त्रेणावृत्त्या वा निर्दिष्टम् ॥ अवतेर्वलोपाभावध | अब्बा माता || आदिशब्दात् प्वादयो भवन्ति ।। ५१४ ।। वडिवटिपेलचणिपणिपल्लिवल्लेरवः || ५१५ ।। - एभ्योवः प्रत्ययो भवति || वड आग्रहणे सौत्रः । वडवाश्वा || वट वेष्टने | वटवा सैव || पेऌ गतौ | पेलवं निःसारम् || चण हिंसादानयोश्च । चणवोवरधान्यजातिः || पाणे व्यवहार स्तुत्योः | पणवो वाद्यजातिः || पल गतौ । पल्लवं किसलयम् || वल्लि संवरणे | त्रल्लवो गोपः || ५१५ ।। मणिव सेर्णित || ५१६ ॥ आभ्यां दिवः प्रत्ययो भवति || मण शब्दे | माणवः शिष्यः ॥ वसं निवासे । वासवः शक्रः ॥ ५१६ ॥ मलेव || ५१७ || मलि धारणे | इत्यस्मादवः प्रत्ययो [ भवति ] स च णिङ्का भवति | मालवा जनपदः || मलवो दानवः || ५१७ ॥ कितिकुडिकुरमुरिस्थाभ्यः कित् || १८ || एभ्यः किदवः प्रत्ययो भवति । कित निवासे । कितवो द्यूतकारः ॥ कुडत् बाल्ये च । कुडवो मानम् । लत्वे | कुलवः स एव नालीद्वयं च ॥ कुरत् शब्दे | कुरवः पुष्पवृक्षजातिः ॥ मुरत् संवेष्टने । मुरवो मानविशेषो वाद्यजातिश्च || ष्टां गतिनिवृत्तौ । स्थवोजावृषः ।। ५१८ ॥ कैरव भैरवकारण्डवादीनवादयः || ५१९ || कैरवादयः शब्दा अवप्रत्ययान्ता निपात्यन्ते । कृग्भृगोः कैरभैरौ च । कैरवं कुमुदम् || भैरवो भर्गो भयानकच || मिनोतेर्मुत् च | मुतवो मानविशेषः ॥ कृगोण्डोन्तो वृद्धिश्व | कारण्डवो जलपक्षी || आड्पूर्वात् दीडो नोन्तश्च । आदीनवो दोषः || आदिग्रहणात् कोद्रवकोटवादयोपि भवन्ति ।। ५१९ ॥ गुणाः || ५२० | शृश् हिंसायाम् । इत्यस्मादावः प्रत्ययो भवति || शरावो मल्लकः||५२०|| प्रथेरिवद् पृथ् च ॥ ५२१ ॥ प्रथिष् प्रख्याने । इत्यस्मादिवद् प्रत्ययो [भव ] त्यस्य च पृथ् इत्यादेशो भवति || पृथिवी भूः ।। ५२१ ।। Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy