SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १२९-३७] उणादिगणविवृतिः । कुवः कुब्कुनौ च ।। १२९ ।। कुंड् शब्दे । इत्यस्माज्जक् प्रत्ययो भवत्यस्य च कुन् कुन् इत्यादेशौ भवतः || कुब्जो वक्रानताङ्गो गुच्छश्व || कुञ्जो हनुः पर्वतैकदेशव । निकुञ्जो गहनम् ।। १२९ ॥ कुटेरजः ॥ १३० ॥ कुटत् कौटिल्ये । इत्यस्मादजः प्रत्ययो भवति ॥ कुटजो वृक्षविशेषः || [[]][दिवा [ दृ]त्त्वम् | कुटजी ॥ १३० ॥ भिषेभिषभिष्णौ च वा ।। १३१ ।। भिषेरजः प्रत्ययो [भवति ] भिष भिष्ण इत्यादेशौ चास्य वा भवतः ॥ भिषिः सौत्रः । भिषजः | आदेशबलान्न गुणः | भिष्णजो वैद्यः । भेषज मौषधम् || १३१ ।। २५ मुर्वेर्मुर् च ॥ १३२ ॥ मु बन्धने । इत्यस्मादजः प्रत्ययो [ भव ]त्यस्य च मुर् इत्यादेशो भवति || मुरजो मृदङ्गः ॥ १३२ ॥ बलेवन्तश्च वा ॥ १३३ ॥ बल प्राणनधान्यावरोधयोः । इत्यस्मादजः प्रत्ययो [भवति ] वकारश्चान्तो वा भवति || बल्वजो मुञ्जविशेषः । बलजा सबुसो धान्यपुञ्जः ।। १३३ ।। उटजादयः ।। १३४ ॥ उटजादयः शब्दा अजप्रत्ययान्ता निपात्यन्ते || वटेर्वस्य उत्वं च । उटजं मुनिकुटीरः || आदिशब्दात् भूर्ज भरुजादयो भवन्ति ॥ १३४॥ कुलेरिजक् ।। १३५ । कुल बन्धुसंस्त्यानयोः । इत्यस्मादिजक् प्रत्ययो भवति ॥ कुलिजं मानम् ।। १३५ ।। कृगोञ्जः॥ १३६ ॥ करोतेरञ्जः प्रत्ययो भवति || करञ्जो वृक्षजातिः || १३६ ॥ झमेर्झः।। १३७॥ अदने | इत्यस्माज्झः प्रत्ययो भवति || झञ्झा सशीकरो मेघ वातः ॥ १३७ ॥ 4 Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy