________________
२४ हेमचन्द्रव्याकरणे
[१२३-१२८ चिंग्ट् चयने । चोचो वृक्षविशेषः । चच्चा तृणमयः पुरुषः ॥ डुमिंग्ट प्रक्षेपणे । मोचा कदली | मञ्चः पर्यङ्कः ॥ १२२ ॥
कुटिकुलिकल्युदिभ्य इञ्चक् ॥ १२३ ॥ एभ्य इच्चा प्रत्ययो भवति ॥ कुटेः । कुटिच्चः क्षुद्रकर्कटः ।। कुलेः । कुलिञ्चो राशिः || कलेः । कलिच्च उपशाखावयवः || उद आपाते सौत्रः । उदिच्चः कोणो येन तूर्य वाद्यते पर पुष्टश्च ।। १२३ ॥
तुदिमदिपद्यदिगुगमिकचिभ्य छक् ॥ १२४ ॥ . एभ्यश्चक् प्रत्ययो भवति ।। तुर्दीत् व्यथने । तुच्छ: स्तोकः ॥ मदैच् हर्षे । मच्छो मत्स्यः प्रमत्त पुरुषश्च । मच्छा स्त्री || पदिंच् गतौ । पच्छः शिला || अदंक भक्षणे । अच्छो निर्मलः ॥ गुंड शब्दे ।। गुच्छ: स्तबकः ॥ गमुं गतौ । गच्छः क्षुद्रवृक्षः ।। कचि बन्धने । कच्छः कूर्मपादः कुक्षि द्यवकुटारश्च । कच्छा जनपदः ॥ बाहुलकारकत्वाभावः ।। १२४ ।।
पीपूडो हस्वश्च ॥ १२५ ॥ आभ्यां छक् प्रत्ययो [ भवति ] हूस्वश्च भवति || पांड्च् पाने | पिच्छं शकुनिपचम् । पिच्छो गुणविशेषः । यद्वान् पिच्छिल उच्यते ॥ पूड पवने । पुच्छं वालधिः ॥ १२५ ।।
__गुलुञ्छपिलिपिञ्छैधिच्छादयः ।। १२६॥ एते छप्रत्ययान्ता निपात्यन्ते । गुडेल उम् चान्तः । गुलुञ्छः स्तवकः ॥ पीलेरिपि नोन्तो हस्वश्च । पिलिपिञ्छो रक्षोविशेषः ।। एधेरिट् च । एघिच्छो नगः॥ भादिग्रहणात् पिञ्छादयोपि भवन्ति ॥ १२६ ॥
वियो जक् ॥ १२७ ।। वीं प्रजननकान्त्यसनखादनेषु च । इत्यस्माज्जक् प्रत्ययो भवति ॥ बीजमुत्पत्तिहेतुः ।। १.२७ ॥
पुवः पुन् च ।। १२८ ॥ पूड् पवने । इत्यस्माज्जक् प्रत्ययो [भव] त्यस्य च पुनित्यादेशो भवति || पुनो राशिः ॥ १२८ ॥
Aho I Shrutagyanam