SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणौ अथान्यं योगं प्रमिताक्षरा सजससैरुदितेति लक्षणलक्षितप्रमिताक्षराच्छंदसाहरिपुलग्नकर्महिबुके शशिजे परिवीक्षिते शुभनभोगमनैः॥ व्ययलग्नमन्मथगृहेषु जयः परिवर्जितेष्वशुभनामधरैः ॥ ७१॥ रिपुलग्नोति ॥ षष्ठलग्नदशमचतुर्थानामन्यतमस्थानस्थे बुधे शुभनभोगमनैः शुभग्रहैः परिवीक्षिते दृष्टे सति द्वादशलग्नसप्तमस्थानव्यतिरिक्तस्थानस्थितैरशुभनामधरैः पापग्रहैरुपलक्षिते सति एवंविधे योगे जिगमिषो राज्ञो विजय एव ॥ ७१ ॥ अथान्यं योगद्वयं त्यौ त्यौ मणिमाला छिन्ना गुहवकैरिति लक्षणलक्षितयाह लग्ने यदि जीवः पापा यदि लाभे कर्मण्यपि वा चेद्राज्याधिगमः स्यात् ॥ यूने बुधशुक्रौ चंद्रो हिबुके वा तत्फलमुक्तं सर्वैर्मुनिवर्यः ॥ ७२ ॥ लग्न इति ॥ लग्ने गुरुः पापग्रहा यदि लाभे एकादशे कर्मण्यपि दशमेऽपि चेत्स्युः एवंविधयोगे प्रचलितस्य राज्ञो राज्याधिगमो राज्यप्राप्तिः स्यात् । अथवा द्यूने सप्तमे बुधशुक्रौ स्यातां चंद्रो हिबुके चतुर्थे स्यादेवंविधयोगे सर्वेर्मुनिवर्यस्तद्वत्फलमुक्तं राज्याधिगमः स्यात् ॥ ७२ ॥ अथान्यद्योगत्रयं ननततगुरुभिश्चंद्रिकाश्वर्तुभिरिति लक्षणलक्षितेन चंद्रिकाच्छंदसाहरिपुतनुनिधने शुक्रजीवेंदवो ह्यथ बुधभृगुजी तुर्यगेहस्थितौ ॥ मदनभवनगश्चंद्रमा वांबुगः शशिसुतभृगुजांतर्गतश्चंद्रमाः ॥ ७३ ॥ रिपुतन्विति ॥ अत्र स्थानानां ग्रहाणां च साम्याद्यथासंख्यमन्वयः । यथा रिपौ षष्ठे शुक्रः लग्ने जीवः अष्टमे चंद्रः एवंविधे योगे गंतू राज्ञो विजय एव । अयमेको योगः। अथ द्वितीयः बुधभृगुजौ तुर्यगेहस्थितौ चतुर्थस्थानस्थौ स्याताम् चंद्रमा मदनभवनगः सप्तमस्थानस्थश्चेदेवंविधे योगे गंतू राज्ञो विजय एव । अथ तृतीयो योगः वा चंद्रमा अंबुगः चतुर्थगः बुधशुक्रयोरंतर्गतो मध्यवर्ती चेत्तदापि राज्ञो विजय एव शशिसुतभृगुजयोरंतर्गतत्वं एकराशावेव ज्ञेयम् अन्यथा चतुर्थस्थानस्थचंद्रस्य बुधशुक्रकतदुरुधरायोगमेवावक्ष्यत् ॥ ७३॥ __ अथान्यद्योगद्वयं सजसासगौ च कथितः कलहंस इति लक्षणलक्षितेन कलहंसच्छंदसाहसितजीवभौमबुधभानुतनूजास्तनुमन्मथारिहिबुकत्रिगृहे चेत् ॥ क्रमतोऽरिसोदरखशात्रवहोरा हिबुकायगैर्गुरुदिनेऽखिलखेटैः ७४ Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy