SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ यात्राप्रकरणम् । अथान्यं योगं त्वरितगतिश्च नजनगैरित्यनेन छंदसाह समुदयगे विबुधगुरौ मदनगते हिमकिरणे ॥ हिghat बुधभृगु सहजगताः खलखचराः ॥ ६६ ॥ समुदयेति ॥ समुदयगे लग्नस्थे बृहस्पतौ सति हिमकिरणे चंद्रे मदनगते सप्तमस्थे सति चतुर्थस्थौ बुधशुक्रौ स्याताम् खलखचराः पापग्रहाः सहजगताः तृतीयगाः स्युः एवंविधे योगे वसुधापतिर्यदि याति तदा रिपुवाहिनी वशमेति ।। ६६ ।। अथान्यं योगं सुमुख्या जजलजगैर्गदिता सुमुखीति लक्षणलक्षितयाह १८५ त्रिदशगुरुस्तनुगो मदने हिमकिरणो रविरायगतः ॥ सितशशिजावपि कर्मगतौ रविसुतभूमिसुतौ सहजे ॥ ६७ ॥ त्रिदशगुरुरिति ॥ बृहस्पतिर्लने चंद्रः सप्तमे सूर्य एकादशे शुक्रबुधौ दशमे शनिमंगलौ सहजगतौ तृतीये एवंविधे योगे गंतू राज्ञो विजय एव ॥ ६७ ॥ अथान्यं योगं स्यादनुकूला भतनगगश्चेति लक्षणलक्षितयानुकूलयाह देवगुरौ वा शशिनि तनुस्थे वासरनाथे रिपुभवनस्थे ॥ पंचमगेहे हिमकरपुत्रः कर्मणि सौरिः सुहृदि सितश्च ।। ६८ ।। देवगुराविति ॥ गुरौ चंद्रे वा लग्ने सति सूर्ये षष्ठे बुधः पंचमस्थाने शनिर्दशमे शुक्रश्चतुर्थे स्यात् एवंविधे योगे जिगमिषो राज्ञो विजय एव ॥ ६८ ॥ अथान्यं योगं ननररघटिता तु मंदाकिनीति लक्षणलक्षितया मंदाकिन्याहहिमकिरणसुतो बली चेत्तनौ त्रिदशपतिगुरुर्हि केंद्रस्थितः ॥ व्ययगृहसहजारिधर्मस्थितो यदि च भवति निर्बलश्चंद्रमाः ॥ ६९ ॥ हिमकिरण इति ॥ बुधो बली चेत्तनौ लग्ने स्यात् हीति निश्वयेन बृहस्पतिश्चेकेंद्रगतः यदि निर्बलो नीचाद्यशुभाधिकारप्राप्तो बलरहितः सन् द्वादशतृतीयषष्ठनवमानामन्यतमस्थानस्थश्चंद्रस्तदैवंविधे योगे गंतू राज्ञो विजय एव ॥ ६९ ॥ अथान्यं योगं अभिनवतामरसं तजजाय इति लक्षणलक्षितेनाभिनवतामरसच्छंद साहअशुभख गैरनवाष्टमदनस्थैर्हिवुक सहोदरलाभगृहस्थः ॥ कविरिह केंद्रगगीष्पतिदृष्टो वसुचयलाभकरः खलुयोगः ॥ ७० ॥ अशुभखगैरिति ॥ अशुभग्रहैः अनवाष्टमदनस्थैः नवमाष्टमसप्तमस्थानव्यतिरिक्तस्थानस्थैः कविः शुक्रः चतुर्थतृतीयैकादशस्थानस्थः केंद्रगतो गीष्पतिर्गुरुस्तेन दृष्टः एवंविधो योगो वसुचयो द्रव्यसमूहस्तस्य लाभकरः स्यात् ॥ ७० ॥ २४ Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy