SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५२ मुहूचिंतामणौ गांधर्वादिविवाहेऽकावेद४ नेत्रर गुणे३ दवः १॥ कुर युगां४ गाद नि३ भू१ रामा३ स्त्रिपद्यामशुभाः शुभाः ॥ ९५ ॥ गांधर्वादीति ॥प्राजापत्यब्राह्मदैवार्षसंज्ञा विवाहा उक्तकाले एव कार्याः । गांधर्वासुरराक्षसपैशाचाख्याः सर्वकाले कार्याः । श्रीपतिः । प्राजापत्यब्रह्मदैवार्षसंज्ञाः कालेषूक्तेष्वेव कार्या विवाहाः । गांधर्वाख्यश्चासुरो राक्षसश्च पैशाचो वा सर्वकालं विधेय इति । तत्र केचिदकौत्सूर्यनक्षत्रात् वेदनेत्रादिषु क्रमेण सदसत्स्यात् । अयमर्थः । सूर्याक्रांतनक्षत्रमारभ्य चत्वायेशुभानि ततो वे शुभे ततस्त्रीण्यशुभानीति क्रमेण त्रिपद्यां त्रयाणां पदानां समाहारस्त्रिपदी तस्यां ब्रह्मविष्णुरुद्रपदाभिधचक्रत्रये इत्यर्थः। एकस्मिन्नपि पदे यदशुभं तदशुभमेव पदत्रये यच्छुभं तच्छुभमिति कृत्वा अशुभशुभानि क्रमेण पठितानि । एवं पदत्रयाणां मुख्यार्थकथनात् पृथक्कथनानुपयोगः । तथा च पदत्रयमुक्तं भूपालवल्लभे । एवं पदत्रये शुद्धं नक्षत्रं दापयेत्सुधीः । गांधर्वासुरपैशाचराक्षसेषु विचिंतयेदिति ॥ ९ ॥ अथ विवाहात्प्राक्कर्तव्यानामावश्यककृत्यानां दिनशुद्धिं पृथ्वीछंदसाह विधोलमवेक्ष्य वा दलनकंडनं वारक गृहांगणविभूषणान्यथ च वेदिकामंडपान् ॥ विवाहविहितोडुशिविरचयेत्तथोद्वाहतो न पूर्वमिदमाचरेत्रिनवषण्मिते वासरे ॥ ९६ ॥ विधोर्बलमिति ॥ अत्र चंद्रबलमावश्यकत्वेन विचार्यम् । वारको मंगलकलशः गृहभूषणं चित्रलेखनादि अंगणविभूषणं संमार्जनगोमयाद्यालेपः अथ च वेदिका चत्वरं वधूवरोपवेशनार्थ स्थलविशेषः । मंडपो गृहाच्छादनं कटादिना वितानादिना वा । बहुवचनात्कटाहाद्यारोपणहरिद्राचंदनकांजिकाधारणादिसकलशुभारंभान् उद्वाहतः पूर्वं विवाहोक्तैरुडुभिर्नक्षत्रैः पंचांगशुद्धिसहिते दिने रचयेत् । उपलक्षणत्वात्तत्तन्नक्षत्रैरुपनयनादावपि पूर्वशुभकर्मप्रारंभान्विरचयेत् । तथा इदं कार्यजातं त्रिनवषण्मिते दिने पूर्व न आचरेत् । चित्रा विशाखा शततारकाश्विनी ज्येष्ठाभरण्यौ शिवभाच्चतुष्टयम् । हित्वा प्रशस्तं फलतैलवेदिकाप्रदानकं कंडनांडनादिकमिति दैवज्ञमनोहरोक्तेः । तत्रैव । मूलेंदुरुद्रश्रवणार्कपोष्णविश्वेशचित्रानलरेवतीषु । संस्थापनं कांजिककुंडिकाया वारे रवभूमिसुतस्य शस्तमिति ॥९६ ॥ अथ वेदीलक्षणं मंडपोद्वासने दिननियमं च शालिन्याहहस्तोच्छ्राया वेदहरतैः समंतातुल्या वेदी समतो वामभागे ॥ युग्मे घने षष्ठहीने च पंचसप्ताहे स्यान्मंडपोद्वासनं सत् ॥ ९७ ।। हस्तोच्छ्रायेति ॥ स्पष्टार्थः । नारदः । हस्तोच्छ्रिता चतुर्हस्तैश्चतुरस्रा समंततः । स्तं Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy