SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ विवाहप्रकरणम् । पसिमिव । लग्नेट् लग्नांशनाथो वा आयगः केंद्रगोऽपि वा । राशि निहंति दोषाणामिंधनानीव पावक इति ॥ ९१ ॥ अथ लग्नविंशोपकाननुष्टुभाह दौ दो ज्ञभृग्वोः पंचेंदो रवौ सार्धत्रयो गुरौ ॥ रामा मंदागुकेत्वारे साधैकैकं विशोपकाः ॥ ९२॥ दाविती ॥ ज्ञभृग्वो रेखाप्रदयोः सतोह्रौं द्वौ विंशोपको एवंविधे चंद्रे पंच सूर्ये सास्त्रियः ३, ३० गुरौ रामास्त्रयः मंदः शनिः अगू. राहुः केतुः आरो भौमः एषु प्रत्येकं सार्धमेकैकम् १, ३० विंशोपकाः ज्ञेयाः ॥ ९२ ॥ ग्रहवशेन श्वशुरादिविभागं सप्रयोजनमुपजात्याह श्वश्रूः सितोऽर्कः श्वशुरस्तनुस्तनु र्जामित्रपः स्यादयितो मनः शशी ॥ एतद्बलं संप्रतिभाव्य तांत्रिक स्तेषां सुखं संप्रवदेद्विवाहतः॥ ९३ ॥ श्वरिति ॥ सितः कन्यायाः श्वश्रूः सूर्यः श्वशुरः तनुर्लग्नं तनुः शरीरं स्यात् । जामित्रपः सप्तमाधीशो दयितो भर्ता मनः चंद्रः एतेषां शुक्रादीनां बलं विचार्य तांत्रिकः सिद्धांतवेत्ता विवाहतो विवाहानंतरं श्वशुरादीनां सुखं स्यादिति प्रवदेत् । कैश्चिद्विशेषांतरमप्युक्तम् । सूयात्पतिः स्त्री च विधोस्तथाराद्वित्तं सुतो ज्ञाच्च सुखं गुरोश्च । धर्मः सितादर्कसुताच्च वेश्म ब्रूयात्समुद्दाहविधौ स्वयुक्त्येति ॥ ९३ ॥ अथ संकीर्णजातीनां विशेषं मत्तमयरच्छंदसाह कृष्णे पक्षे सौरिकुजार्केऽपि च वारे वये नक्षत्रे यदि वा स्यात्करपीडा ॥ संकीर्णानां तर्हि सुतायुर्धनलाभ प्रीतिप्राप्त्यै सा भवतीह स्थितिरेषा ॥२४॥ कृष्णे पक्ष इति ॥ कृष्णे पक्षे शनिभौमार्कवारे विवाहोक्तनक्षत्रभिन्ननक्षत्रेषु । च. काराढुष्टयोगेष्वपि संकीर्णानामनुलोमप्रतिलोमजानामपि यदि करपीडा विवाहः स्यात् तर्हि सा करपीडा सुतायुर्धनलाभप्रीतिप्राप्त्यै भवति । एषा स्थितिः वा ग्रहणात् तदभावे प्रागुक्तदिनेऽपि विवाहः कार्य इति ॥ ९४ ॥ अथ गांधर्वादिविवाहे विशेषमनुष्टुभाह Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy