________________
मानसोल्लासः।
[ अध्यायः १
तयो पार्श्वगतौ मध्यौ तत्पार्धे पारिभक्षको । तत्पार्श्वगौ कर्तनारव्यौ ततः स्यात्त(ता)न्तु खण्डनौ ॥ २७६ ॥ सुश्लक्ष्णाः कान्तिसम्पन्नाः स्वस्थाः शुभ्रा निरन्तराः। दशनाः शिल्पिभिः कार्या अंर्चाया लेखनेपि वा ॥ २७७ ॥ वीटिकाखण्डने द्वारे (हासे) त्रासादगुलचर्वणे । दर्पणालोकने दृश्या दशनच्छदगृहिताः ॥ २७८ ॥ सकणौ पार्श्वगौ देशौ कौँ स्याता निरस्थिको । तस्या ( स्माद् ) बहिश्चलास्थि स्यात्कर्णमूलेन सङ्गतम् ॥२७९ ॥ क्रमशो हीयते तत्तु यावत् स्याद्धनुमण्डलम् । सााङ्गुलं भवेदूर्ध्व तिर्यक् स्याच्चतुरङ्गुलम् ।। २८० ॥ अधरोष्ठतलोद्देशे चिबुकं समुदाहृतम् । कुब्जकूर्च भवेत्तस्मिनिने मात्राप्रमाणके ॥ २८१ ॥ हनुपृष्ठे भवेत्कूर्चे पर्चलास्थिक्रमेण तु । यवमानं प्रकुर्वीत कूर्च प्रथमसम्भवम् ॥ २८२ ॥ द्वयष्टवत्सरदेशस्य पुरुषस्य विचक्षणः । प्रकुर्वीत ततश्चोर्ध्वमधिकं यवमानतः ॥ २८३ ॥ अष्टाङ्गुला भवेद्वीवा विस्तारेण निरूपिता । द्विगोला सा च दैर्येण परिणाहे द्वितालिका ।। २८४ ॥ ग्रीवामध्यप्रदेशे तु निगालः परिकीर्तितः । अधस्तस्य भवेद्धिक्का मात्रामात्रा प्रकीर्तिता ॥ २८५ ।। हिकाया हृदये तालस्तालश्च स्तनचूचुके । कक्षामूले तथा तालस्तालः कक्षधरो भवेत् ॥ २८६ ॥ कन्धरास्कन्धसन्धिः स्याद्धिक्कायाश्चतुरङ्गुलैः।
कक्षामूलात्कुक्षिधरो भवेदष्टाङ्गुलायतः ॥ २८७ ॥ १D प । २ P नु । ३ D च्छाः । ४ Other mss आचार्या F आऊर्या । ५ DF वा । ६ D F हकाः A हिका ७ A. हिः स्थला। ८ A ब । ९ D. च । १० A रा. ११ B F यङ्गुली । १२ A ताः । १३.B. Fला A लं। १४ D कुक्ष।
Aho ! Shrutgyanam