SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ १२ मानसोल्लासः । धनिष्ठ वारुणं चेति प्रवेशक्षणि वेश्मनः । सूर्यभूमिसुतौ त्यक्त्वा प्रवेशेऽन्ये शुभावहाः ।। ११७ ॥ धनुः कुम्भस्तथा कन्या मिथुनं वृषभस्तथा । मीनश्चेति शुभाः वौरा राशयो लग्नसंगताः ।। ११८ ॥ लग्नं चतुर्थ दशमं सप्तमं केन्द्रसंज्ञितम् । नवमं पञ्चमं लग्गत् त्रिकोणं परिकीर्तितम् ॥ ११९ ॥ केन्द्रत्रिकोणगाः शस्ताः गुरुशुक्रबुध ग्रहाः । पापास्त्रिलाभपष्टस्थाः शुभा वेश्मप्रवेशने ॥ १२० ॥ सुधाकरवलं लब्ध्वा नातिक्षीणे निशाकरे । तिथिं रिक्तां परित्यज्य विशेन्मन्दिरमूर्जितम् ॥ १२१ ॥ ब्राह्मणोदीरितैर्मन्त्रैः शोभनैः शङ्खनिःस्वनैः । मङ्गलैस्तूर्यनादैश्व विशेद्वेश्म विशपतिः ।। १२२ ।। इति गृहप्रवेशः । एकभूमे द्विभूमे व भूमित्रयसमन्विते । भूचतुष्टयसंयुक्ते पञ्चभूमेऽपि वा शुभे ॥ १२३ ॥ षट्सप्तभूमे वा तथा चैवाष्टभूमिके । प्रासादे नवभूमे वा निवसेद्वसुधाधिपः ।। १२४ ॥ सुधाधवलिते रम्ये वास्तुलक्षणसंयुते । जालमार्गकृतोद्योते कापि सर्वप्रकाशके ।। १२५ ।। कापि सन्तमसोपेते मणिदीपप्रकाशिते । दन्तिदन्तविनिर्माणमत्तवारणशोभिते ।। १२६ ।। सौवर्णस्तम्भरुचिरे चन्दनस्तम्भगन्धिनि । रत्नस्तम्भकृताभासे प्रवालस्तम्भरञ्जिते ।। १२७ ॥ काकुट्टिमरोचिष्णौ स्फटिकोज्ज्वलकुट्टिमे । सुधायाः कुट्टिमोपेते स्फुरद्दरदकुट्टिमे ॥ १२८ ॥ [ अध्याय १ १ A ष्टां । २ A च । ३ A सर्वे । ४ A नं। ५ Fता । ६Dधाः AAतः ८ त्र । SB द्वि । १० B मेर्वा । ११E कौ. Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy