SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ विंशतिः४] मानसोल्लासः। पूरकेण समायुक्तं वायुना जठरं दृढम् । त्रिकं च सन्नतं कार्य पादौ स्थानस्थितौ दृढौ ॥ ९६ ॥ एवं लक्षणसंयुक्तं दर्शयेत्सौष्ठवं नृपः ।। पूर्वमाकुश्चितं पादं चापस्थानाङ्गयोजितम् ॥ ९७ ॥ तिर्यक्षसारितं कृत्वा पृष्ठे पादं तथाऽपरम् । अङ्गुष्ठः पूर्वपादस्य पश्चात्पादकनिष्ठिका ॥ ९८ ॥ वितस्तिपञ्चकं मध्यं तयोरालीढकं भवेत् । व्यत्यासं पादयोः कृत्वा प्रत्यालीढं प्रयोजयेत् ॥ ९९ ॥ वैशाखे तु समौ पादौ वितस्तित्रयमन्तरम् । वितस्त्यन्तरमात्रौ तु समौ पादौ प्रयोजयेत् ॥ १० ॥ पूर्ववत्पादसंस्थानं समपादं प्रदर्शयेत् । चतुर्वितस्तिकं मध्यं तियक् पादावुभावपि ॥१॥ अस्त्रादिवाहने शस्तं मण्डलं स्थानकं विदुः। पूर्वाङ्गिपाणॆरारभ्य पार्थाभ्या(श्चात्या)ङ्गुष्ठकावधि ॥ २॥ वितस्तिमात्रं मध्यं चेजातं जातं(स्थान) प्रदर्शयेत् । जातस्य वैपरीत्येनाभिजातं नियोजयेत् ॥ ३॥ पश्चात्यान(पाश्चात्याचि समुत्क्षिप्य हंसपादं प्रकाशयेत् । बाह्ये तो वलितो पादौ जानुनी च भुवि स्थिते ॥ ४ ॥ आसनं दारं कृत्वा प्रौढिं प्रकटयेन्नृपः । अधः पादतले कृत्वा पद्मासनमथाचरेत् ॥ ५॥ वामं जानु क्षितौ कृत्वा दक्षिणं पादमुत्कटम् । गरुडस्यासने स्थित्वा गारुडान्सायकान्क्षिपेत् ॥ ६ ॥ दक्षिणं स्वस्तिकाकारं वामं दर्दुरवत्पदम् । आसनं मृगयायोग्यं कुर्यात्स्वस्तिकदर्दुरम् ॥७॥ १D F यनू । २ D छ । ३ A के। ४ A त्र । ५ D पार्श्वभ्यामनिं । ६ A त्सा। . A क्षि। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy