SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ विंशतिः ३] मानसोल्लासः । विशाले काञ्चने पात्रे स्वर्णकञ्च्चोले संयुते । लोहगङ्गालकैर्युक्ते रुक्मपिंगालकैट्टेते ॥ ८६ ॥ भैर्मशुक्तिसमोपेते कनकस्थालसँयुते । जलप्रक्षालिते सम्यक् सितवप्रमार्जिते ॥ ८७ ॥ वर्धयेत्पूर्वकथितमन्नपकान्नपानकम् । ऊरुनाभिप्रदेशान्तं सञ्छाद्य सितवाससा ॥ ८८ ॥ गद्दिकायां समासीनः पूर्वाशासम्मुखो नृपः । अनं मुद्द्रसमोपेतं भुञ्जीतोष्णं घृतप्लुतम् ॥ ८९ ॥ प्राचीमुखस्तु भुञ्जान आयुश्च लभते बहु । यशश्च लभतेऽत्यर्थमश्नन्दक्षिणदिङ्मुखः || १५९० ।। श्रियं तु लभते पुष्टां भुञ्जानः पश्चिमाननः । सत्यवाक्यफलं प्राप्नोत्यश्नन् धनददिङ्मुखः ॥ ९१ ॥ श्लक्ष्णमांससमायुक्तं विदलैर्वा विमिश्रितम् । लेहे विविधैर्हयैर्लेपितं वा तथोदनम् ॥ ९२ ॥ मांसप्रकारकैर्मृष्टरम्लमिश्रैव च पल्लवैः । नानाविधैस्तथा शाकैः फलपत्रसमुद्भवैः ।। ९३ ।। वटकैः पर्पेटैर्हृद्यैः खारखण्डोर्पखण्डकैः । यथारुचि यथासात्म्यं सुखं भुञ्जीत भूपतिः ॥ ९४ ॥ पक्कान्नं पायसं मध्ये शर्कराघृतमिश्रितम् । ततः फलानि भुञ्जीत मधुराम्लरसानि च ॥ ९५ ॥ पिबेच्च पानकं हृद्यं लिह्याच्छिखरिणीमपि । चूषेत मज्जिकां पचादधि चांद्यात्ततो घनम् ।। ९६ ।। ततस्तक्रा*मश्रीयात् सैन्धवेन च संयुतम् । क्षीरं वाऽपि पिवेत्पश्चात् पिबेद्वा काञ्जिकं वैरम् ॥ ९७ ॥ १३५ ACFम्बो । २ भुम । ३ A सङ्गते । ४ D ब्रेण । ५A Fम्ल । ६ A न्न | D प्रले हैर्वि । ८ A ण्डेप । ९ A वा । १० A न्त । ११ A वरी । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy