SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १३४ मानसोल्लासः। [ अध्यायः १३ मथितं शर्करायुक्तमेलाचूर्णविमिश्रितम् । कर्पूरधूपितं नाम्ना मजिकेत्यभिधीयते ॥ ७३ ॥ निष्पीड्य दधि वस्त्रेण स्रावयेत्तद्रुतं जलम् । शर्करैलासमायुक्ता सूदैः शिखरिणी मता ॥ ७४ ॥ स्रावितं यद्धृतं तोयं जीरकाकसैन्धवैः। संयुक्तं हिडधूपेन धूपितं मस्तु कीर्तितम् ॥ ७५ ॥ नवनीतं नवं धौत नीरलेशविवर्जितम् । तापयेदग्निना सम्यक् मृदुना घृतभाण्डके ॥ ७६ ॥ पाके संपूर्णतां याते क्षिपेद्गोधूमबीजकम् । क्षिपेत्ताम्बूलपत्रं च पश्चादुत्तारयेद्धृतम् ॥ ७७ ॥ तण्डुलक्षालितं तोयं चिश्चाम्लेन विमिश्रितम् । ईषत्तक्रेण संयुक्त सितया सह योजितम् ॥ ७८॥ एलाचूर्णसमायुक्तमार्द्रकस्य रसेन च । धूपितं हिङ्गुना सम्यक् व्यञ्जनं परिकीर्तितम् ॥ ७९ ॥ सौवीरनिर्मलं साम्लं लवणेन च संयुतम् । हिङ्गुना जीरकेणापि धूपितं धूपकाञ्जिकम् ॥ १५८० ॥ शङ्कद्वयं समास्थाप्य बधीयादुज्ज्वलाम्बरम् । प्रसार्य ष(य)ष्टिभिः किश्चित्क्षीरमम्लेन भेदितम् ॥ ८१॥ .. सितया च समायुक्तमेलाचूर्णविमिश्रितम् । क्षिपेत्प्रसारिते वस्त्रे स्रावयेत्पेषयेत्समम् ॥ ८२ ॥ पुनः पुनः क्षिपेत्तत्र यावन्निर्मलतां व्रजेत् । पक्कचिश्चाफलं भृष्टं वर्णार्थं तत्र निक्षिपेत् ॥ ८३ ॥ यस्य कस्य फलस्यापि रसेन परिमिश्रयेत् । तत्तन्नामसमाख्यातं पानकं पेयमुत्तमम् ॥ ८४ ॥ सौवर्णे राजते पात्रे रीतियन्त्रविधारिते । भोजयेन्मण्डलेशादीन्यथायोग्यप्रदेशतः ॥ ८५ ॥ १D आव। २ A त । ३ A मधु । ४ A य । ५A तः। ६ DF श्रितम् । ७ Dपान | Fवंत। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy