SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विंशतिः३] मानसोल्लासः। वामे पार्थे तु सावित्री दक्षिणे तु सरस्वतीम् । आज्यस्थाली पुरोभागे महर्षीश्च समन्ततः ॥ ७१९ ॥ हंसारूढं लिखेत्कोपि क्वचिच्च कमलासनम् । स्रष्टारं सर्वलोकानां ब्रह्माणं परिकल्पयेत् ॥ ७२० ॥ महादेवं प्रवक्ष्यामि यथा लेख्यः स भित्तिषु । मुक्तार्करश्मिसङ्काशस्तप्तस्वर्णनिभोऽपि वा ।। ७२१ ॥ उन्नतांसो महाबाहुः कमलायतलोचनः । द्वीपिचर्मपरीधानो वृत्तजङ्घोरुमण्डलः ॥ ७२२ ॥ केयूरहारसम्पन्नः कटिसूत्रत्रयान्वितः । नवेन्दुकलिकाक्रान्तजटाजूटविराजितः ॥ ७२३ ।। इन्दुमू(शू)लत्रिनेत्रे(त्रै)णनागाभरणभूषितः । द्यष्टवर्षदेशीयो नीलकण्ठो मनोहरः ॥ ७२४ ॥ कुण्डली पीनगण्डः स्यादष्टभिर्वाहुभिर्युतः । दशभिर्बाहुभिर्वाथ भुजैः षोडशभिः कचित् ॥ ७२५ ॥ अष्टादशभुजः कापि चतुर्बाहुरथापि वा । तेषु शस्त्राणि वक्ष्यामि भुजेषु च यथाक्रमम् ॥ ७२६ ॥ अक्षमालामासं शक्ति दण्डं शूलं च दक्षिणे। खदानं भुजगं चैव कपालं खेटकं तथा ॥ ७२७ ॥ घरदं च तथा हस्तं वामभागे निवेशयेत् । गजासुरवधे नाट्ये बाहुभिर्देशभियुतः ॥ ७२८ ॥ पुरत्रयस्य दहने भुजैःषोडशभिर्युतः। बाणश्चक्रं गदा चैव दक्षिणेप्यधिकं भवेत् ॥ ७२९ ॥ धनुश्चैव तथा घण्टा शङ्खो वामेऽधिकं भवेत् । दश पूर्व भुजाः प्रोक्ताः षोडशैवं निरूपिताः ॥ ७३० ॥ स्वच्छन्दभैरवाकारे बाहवोऽष्टींदश स्मृताः । डमरुं च तथा शङ्खमधिकं तत्र कल्पयेत् ।। ७३१ ॥ १B वीभिः । २ A का । ३ A त । ४ A स । ५ D रैः । ६ A 2 । ७ B F माधिके A हुंच्य । Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy