SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [ अध्यायः१ ऊध्वेस्थिताभ्यां बाहुभ्यामान्त्रमालां तु बिभ्रतीम् । मध्यस्थिताभ्यां बाहुभ्यां दक्षिणे चक्रपङ्कजे ॥ ७०७ ॥ कौमोदकी तथा शङ्ख बाहुभ्यामभिवामतः । नीलोत्पलदलच्छायां किंवा चम्पकसप्रभाम् ॥ ७०८ ॥ तप्तकाञ्चनसङ्काशां बालार्कसदृशीं लिखेत् । आसीनं द्विभुजं देवं प्रसन्नवदनेक्षणम् ॥ ७०९ ॥ श्वेतस्फटिकसङ्काशं चतुर्बाहुमथापि वा । आजानुलम्बिनौ बाहू कर्तव्यौ तत्र दक्षिणौ ॥ ७१० ॥ समीपे कल्पयेच्चक्रं वामे शङ्ख समीपतः । ऊर्ध्वस्थिताभ्यां बाहुभ्यां दक्षिणं(ण) पञ्चकं(पङ्कज)न्यसेत् ॥ ७११ ॥ वामे बाहौ गदा रम्यां लिखेचित्रविशारदः । तथा त्रिविक्रमं वक्ष्ये वामपादेन मेदिनीम् ॥ ७१२ ॥ आक्रामन्तं द्वितीयेन साकल्येन नभस्तलम् । ऊर्ध्वपादसमीपस्थं वामनं दीनलोचनम् ॥ ७१३ ॥ आलिखेत समीपस्थं बाल शृ(भ)ङ्गारधारिणम् । तस्य बन्धं प्रकुर्वन्ति(वन्तं) गगनान्तं प्रकल्पयेत् ॥ ७१४ ॥ मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत् । कूर्मावतारिणं देवं कमठाकृतिमालिखेत् ॥ ७१५ ॥ लिखेचतुर्मुखं देवं चतुर्बाहुं शुभेक्षणम् ।। रक्तकुण्डलसंयुक्तं लम्बकू!पवीतिनम् ॥ ७१६ ॥ कृष्णाजिनधरं देवं शुक्लाम्बरविराजितम् । दक्षिणं वरदं हस्तं तथान्यं स्तु(ञ)वधारिणम् ॥ ७१७॥ कमण्डलुधरं वामं तथान्यं संयुतं रोच(स्रुचा)। बिभ्राणं चतुरो वेदान् पुरतश्चास्य विन्यसेत् ।। ७१८ ॥ १Fणे । २ A म । ३ D न्यत्सूत्र B न्यं सूत्र। ४ A देवं । ५ B. D. स्तथा। ६ F पु। Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy