SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अध्यायः ४ ] मानसोल्लासः । धात्वन्तरसमायुक्तमशुद्धं नैव धारयेत् । अशक्तं स्वर्णकार्येषु गृहलक्ष्मी त्रिनाशकम् ।। ३९९ ।। नागेन मिश्रितं रौप्यं वह्निना परिशोधितम् । चन्द्रमण्डलसङ्काशं कोशे स्थाप्यं महीभुजा || ४०० ॥ 9 यशः- सौभाग्यजननं श्रेष्ठ पुत्रप्रदायकम् । गृहे विधारितं रौप्यं मलिनं चासुखमदम् ॥ ४०१ ॥ रत्नानि धारयेत् कोशे शुद्धानि गुणवन्ति च । सम्भवं च तथा जातिं गुणं तेषां परीक्षप च ॥ ४०२ ॥ कृते युगे कलिङ्गेषु कोसले वज्रसम्भवः । हिमालये मतङ्गाद्रौ त्रेतायां कुलिशोद्भवः ॥ ४०३ ॥ पौण्ड के च सुराष्ट्रे च द्वापरे या च सन्ततिः । वैरागरे व सोपारे कलौ हीरकसम्भवः ॥ ४०४ ॥ गुणाः पञ्च समाख्याता दोषाः पञ्च प्रकीर्तिताः । छायाश्चतस्रो विज्ञेया वाणां रत्नकोविदैः ॥ ४०५ ॥ षट्कोणत्वं लघुत्वं च समाष्टदलता तथा । तीक्ष्णाग्रता निर्मलत्वमिमे पञ्च गुणाः स्मृताः ॥ ४०६ ॥ मलो बिन्दुस्तथा रेखा त्रासः काकपदं च यत् । एते दोषाः समाख्याताः पञ्च वज्रेषु कोविदैः ॥ ४०७ ॥ श्वेता रक्ता तथा पीता कृष्णा छाया चेतुर्विधा । मिक्षत्रियवैश्यानां शूद्रनातेर्यथाक्रमम् ॥ ४०८ ॥ यज्ञैर्दानैस्तपोभिच पदानोति तदाप्नुयात् । गुणयुक्तस्य वज्रस्य विप्रजातेर्विधारणात् ।। ४०९ ॥ १ AB श्रेष्ठं । २ B तथाविधा । Aho! Shrutgyanam ६५
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy