SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अध्यायः १ ] मानसोल्लासः । धातुवादप्रयोगैश्च विविधैर्वर्धयेद् धनम् । ताम्रेण साधयेत् स्वर्ण रौप्यं वङ्गेन साधयेत् ॥ ३७७ ॥ शुष्कपुष्पपलाशस्य पुष्पं संशोष्य चूर्णयेत् । छागदुग्धेन तच्चूर्ण जीन् वारान् परिभावयेत् ॥ ३७८ ॥ वषष्ठांशचूर्णेन पिष्ठेनैतत् प्रलेपयेत् । पुटपाकेन तद् दग्धं तारं भवति शोभनम् ॥ ३७९ ॥ श्वेतमतः पुष्पं स्वरसेन विभावयेत् । तालं द्वात्रिंशतं वारान् तेन वङ्गं प्रलेपयेत् ॥ ३८० ॥ पुटपाकेन तद् दग्धं वज्रं व्रजति तारताम् । मार्दवं कालिमां गन्धं वज्रं त्यजति निश्चितम् ॥ ३८१ ॥ श्वेतब्रह्मत बजतैलेन परिभावयेत् । गन्धकं सप्तकृत्वोऽथ तेन ताम्रदलानि च ।। ३८२ ॥ लेपितं तत्पुढे दग्धं शुल् काञ्चनतां व्रजेत् । दाहच्छेदनिघर्षादिकर्मयोग्यं भवेत् ततः ॥ ३८३ ॥ तस्य तैलेन दरदं गन्धकं पारदं तथा । मर्दयेत् स्वल्पपाषाणे यावत् तत् कल्कतां व्रजेत् ॥ ३८४ ॥ लेपयेत् तेन कल्केन वङ्गपत्राणि सर्वतः । दग्ध्वा दग्ध्वा पुनर्लिम्पेद् वारान् द्वात्रिंशतं बुधः ॥ ३८५ ॥ ततो वज्रं भवेत् स्वर्ण रञ्जितं दरदादिभिः । व्यवहारक्षमं शुद्धं कर्मयोग्यं भवेच्च तत् ।। २८६ ।। निर्यासं शाकवृक्षस्य श्लक्ष्णवस्त्रेण गाळयेत् । समूलशिग्रुचूर्णेन निर्याससहितेन च ॥ ३८७ ॥ परितस्ताम्रपत्राणि दग्ध्वा दग्ध्वा विलेपयेत् । दाहैः पञ्चभिरेतत् तु कावानं जायते शुभम् || ३८८ ॥ કર Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy