SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मानसोडासः। [विशतिः २ यूयं विहाय यो गच्छेद भयसन्त्रस्तमानसः। तं नागमनुगच्छेयुः पाशकूर्चकधारिणः ॥ २०६ ॥ पिपासितः परिश्रान्तस्तोयान्तिकमुपागतः । श्रुत्वा तूर्यकृतं नादमन्यतः अपळायते ॥ २०७ ॥ शुष्कलालाजलेऽत्यर्थ गते च जडतां गजे । इलथे करे च पुच्छे च निश्चले कर्णपल्लषे ॥ २०८ ॥ ततो पेगयुता वश्या वशाश्चाधोरणेरिताः । श्रान्तं द्विपं समागत्य वेष्टयन्ति समन्ततः ॥ २०९ ॥ ततः पाशधरा दक्षा वशागात्रतिरोहिताः । निबध्नन्ति नराः शूरास्तं गात्रापरयोपिम् ॥ २१० ॥ कक्षामागे च कण्ठे च निगडैश्चमनिर्मितेः । समीपस्थस्य वृक्षस्य स्कन्धे बध्नन्ति सिन्धुरम् ॥ २११ ॥ अनेन विधिना यत्र क्रियते गजबन्धनम् । स बन्धोऽनुगतो शेयो बन्धविधासु कोविदः ॥ २१२ ॥ इत्यनुगतबन्धः॥ नालिकेराअनोद्भुतवल्ककल्पितपाशकम् । षष्टिहस्तायु(य)तं स्थौल्ये प्रकोष्टसमतां गतम् ॥ २१ ॥ तस्या निक्षिपेत् गात्रे पूरयेच्च दृढं मृदा । शेषाधं पाशवत् कुर्याद् गजग्रीवाधिरोधनम् ॥ २१४ ॥ तेन पाशेन यो बद्धः स भृशं पीडितो भवेत् । प्रमादोऽपि भवेत कापि वापि जीवति कुञ्जरः ॥ २१५ ॥ आपाताख्यः समाख्यातो बन्धोऽयं हस्तिबन्धकैः । निन्दितश्च भवत्यष सिंहसंशयितः सदा ।। २१६ ॥ इत्यापावधः ॥ Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy