________________
अध्याय १९]
मानसोल्लासः। स्वमसान्तरमाविश्य त्वचि पाण्डत्वमावहेत् । चित्रकं वरं च प्रत्येकं पलसम्मितम् ॥ २६३ ।। पिप्पल्यईपलं ग्राह्य धान्यकस्य पलद्वयम् । दाडिमस्यापि कुडवं वारिणा परिपेषयेत् ॥ २६४ ॥ पलानि विंशतिः सर्पिः सलिलस्याढके पचेत् । पाण्डुरोगे च हृद्रोगे गुल्मेष्वस्सुि मारुते ॥ २६५ ॥ पलास-पळीहरोगे च प्रयोगोऽयमुदाहृतः । अतिसारादितः शीघ्रं लवणाम्लं निषेवते ॥ २६६ ॥ तस्य सजायते शोफा मुकुच्छ्रः सर्वदेहगः । विषा शुण्ठी देवदारु-कृमिघ्नेन्द्रयवोषणम् ॥ २६७ ॥ कथितं पाययेच्छोफरोगिणं शोफशान्तये । एरण्डातिविषा-रास्ना-देवदारुमहौषधैः ॥ २६८ ॥ सहितो गुग्गुलदेयः सर्वात च यथा नृणाम् । अतिमकुपितं रक्त तीक्ष्णैरबैर्विदाहिभिः ॥ २६९ ॥ प्रणं विसर्पिः कुरुते विसर्पः स तु कथ्यते । मुस्तारिष्टपटोलंच पेषितं शीतवारिणा ॥ २७ ॥ विसर्प तेन सेपेन क्षालयेच परेऽहनि । वटपरोहास्तरुणाः कदीमध्यमिश्रिताः ॥ २७१ ॥ मनाम्ग्रन्थिसम्मिमा विसर्प नन्ति लेपनात् । विरुदेनानपानेन साधूनां निन्दवा वधात् ॥ २७ ॥ पाक्तनैः कर्मभिः क्रूरैः कुष्ठं श्वित्रं च जायते । पात्री निम्बस्य पत्राणि पेषितानि तु भक्षयेत् ॥ २७१ ॥ कासमर्दशिफाकुष्टं लिम्मेद् दन्तशगम्बुना । एइची निम्बपत्राणि पटोळ कण्टकारिका ।। २७४ ।।
Aho ! Shrutgyanam