SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः । अनिष्टानोपयोगेन मारुतः कुपितो भृशम् । उदानः कुरुते छर्दि नाभिपृष्ठरुजान्विताम् || २१५ ॥ अध्याय १९ ] जम्बू-चूत-बलोशीर- वटशृङ्गावरोहजः । क्षौद्रेण सहितः कायः पीत छर्दिविनाशनः ॥ २१६ ॥ क्षौद्रं हरीतकीचूर्ण कोळं वा मधुमिश्रितम् । मनं वा वमिद्रव्यै छर्दि विनाशयेत् ॥ २१७ ॥ हीनमिथ्यातिपानेन भवत्याशु मदात्ययः । छर्दिर्मो भ्रमस्तन्द्रा मलापो जायते ततः ।। २१८ ॥ पश्चाहं सप्तरात्रं वा जायतेऽसौ मदात्ययः । अत ऊर्ध्वं प्रसक्तश्चेद् रोगोऽन्यः परिकीर्त्यते ॥ २१९ ॥ सहलासे सदाहे च सहच्छ्रले मदात्यये । मनं वमनद्रव्यैः प्रयुञ्जीत प्रयोगवित् ।। २२० ॥ तृषि द्राक्षारसो देयो मधुना परिमिश्रितः । पाटल्युत्पलकन्दैर्वा तोयं केवलमेव वा ।। २२१ ।। चिश्चा-दाडिमवृक्षाम्लैः सह कोळाळवेत सैः । मुखलेपः कुतो हन्ति तृष्णां मद्यसमुद्भवाम् ।। २२२ ॥ मोहे विदाहे भ्रान्तौ च कर्त्तव्या शिशिरक्रिया | शिरःशूळे च जाडये च घनं प्रावरणं हितम् || २२३ ॥ स्वापः प्रलापबहुळे योजनीयो मदात्यये । छाग- तित्तिर- लावैण-शशमांसरसैर्युतम् ।। २२४ ।। सक्तपिष्टकमश्नीयात् पिबेश्च स्वादु पानकम् । घृतं वा केवलं पीतं मदात्ययहरं परम् ॥ २२५ ॥ गुदावलिसम्भूता विष्टाधारण हेतुकाः । अङ्कुराः कथिताः प्राज्ञैरर्शासीत्यभिधानतः ॥ २२६ ॥ Aho! Shrutgyanam २१
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy