SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २० मानसोल्लासः । श्यामा त्रिवृत्कषायेण तत्कल्केन सितान्वितम् । लेहं विपाचितं दद्यात् कर्षमात्रमसृग्हरम् ॥ २०४ ॥ [ विंशतिः १ पिप्पली त्रिफला श्यामा शर्करा त्रिवृता मधु 1 एतैः कृतो मोदकोऽयं सन्निपातोत्थरक्तजित् ॥ २०५ ॥ कुपितो वातद्रव्यैर्मारुतः कफरेचितः । उरस्यावदते कासं हृत्पार्श्वगदपीडितम् ॥ २०६ ॥ अमृता- कण्टकारिभ्यां द्वाभ्यां षष्टिपळा रसैः । चतुर्भागं पचेत् सर्पिर्घृतशेषं तु कासजित ॥ २०७ ॥ कृमिघ्नमौषधं रास्ता मागधी हिगु सैन्धवम् । क्षारो भाङ्ग च तच्चूर्ण पिबेदाज्यस्य मात्रया ॥ २०८ ॥ कासे बलाससंयुक्तमारुतेन विनिर्मिते । हिक्कायामग्निमान्धे च श्वासे चैतत् प्रशस्यते ॥ २०९ ॥ वृद्धात् कासाद्भवेच्छ्रासः श्वासात् तु कुपितो मरुत् । कुपितात् पवनाभ्यासात् पाण्डुरोगात् (गो) ज्वराद् गदात् ॥२१०॥ कर्चुरं पौष्करं मूलं तथैरामलकीफलम् । पिबेदाज्येन तच्चूर्ण श्वासे मांसरसेन वा ।। २११ ॥ वेगानां धारणादोजः-स्नेह-शुक्रक्षयादपि । अपि व्यायामतो हीनः श्वास-कास- ज्वरामयः ।। २१२ ।। भृशं प्रकुपितो वातः कफपित्तमुदीरयेत् । देहसन्धीन् समाविश्य क्षयरोगं समावहेत् ॥ २१३ ॥ रास्ना-तिल बलाचूर्ण ससर्पिष्टिकोत्पलम् । अवलीढं हरेच्छोषमनिपान्द्यं च नाशयेत् ॥ २१४ ॥ १ B • सादं Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy