SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अध्याय १५] मानसोल्लासः । महापातकपातीनि महापुण्यफलानि च । महादानानि देयानि महादेवस्य तुष्टये ॥ ६ ॥ रौप्य-काश्चन-रत्नानि वस्त्र-शय्याऽऽसनानि च । गजाश्व-महिषी-गावो बलीवर्दा धुरन्धराः ॥ ६१ ॥ गृहं ग्रामस्तथा भूमि सी कन्या विभूषणम् । अन्न-पानं तिलौपध्यौ मीतस्याभयमुत्तमम् ॥ ६२॥ यद् यस्याभिमतं लोके यत् सुखं निजमन्दिरे । तत सर्व विदुषे देयं तदेवाक्षयमिच्छता ॥ ६३ ॥ इति दानाध्यायः ॥ ९ ॥ ऋतं वाच्यं प्रियं वाच्यं न वाच्यं हितमप्रियम् । प्रियं च नानृतं वाच्यमेष धर्मः सनातनः ।। ६४ ॥ हितं यान्मितं ब्रूयात् प्रियं ब्रूयात् सदर्यरत् । एवं पदति यो नित्यं स लोके पूज्यते बुधैः ॥ ६५ ॥ बुधैस्तु पूज्यते भूमौ विबुधैः पूज्यते दिवि । लोकद्वयबुषः स स्याद् यः प्रियं वक्ति सवेदा ।। ६६ ॥ इति प्रियवचनाध्यायः ॥ १० ॥ नयझं ब्रह्मपङ्गं च देवयज्ञमतः परम् । भूतयझं पितृयज्ञं पश्च यज्ञान् प्रवर्तयेत् । ६७ ॥ ज्योतिष्टोमादिकान् यज्ञान् वाजिमेधावधिस्थितान् । शरत्काले वसन्ते च यथोक्तविधिना चरेत ॥ ६८ ॥ अत्रहीनो दहेद् राष्ट्रपत्विजो (ग् यो ?) मन्त्रवर्जितः । विना दानेन यज्वानमाचार्यमवधीत् क्रतुः ॥ ६९ ॥ अयुतं लक्षहोमं च कोटिहोमं च शान्तिकम् । कुर्वीत विप्रमुख्यैश्च कारयेच्छुभकाङ्क्षया ॥ ७० ॥ Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy