SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ११० मानसोल्लासः । आप्य मारुतयोर्वैरं बलवान् मारुतस्तयोः । मध्यस्थात्राम्बरायौ नाभसस्तु तयोर्बली [ विंशतिः २ ।। ८९२ ।। नैव शत्रू न मित्रे च नामसाध्यौ परस्परम् । तथापि नामसो नादः प्रबलः परिकीर्तितः ।। ८९३ ॥ पार्थिवायोमैत्री तत्र भौमो बली स्वरः । अनलानिलयोमैत्री बलवाननिलस्तयोः || ८९४ ॥ जल मारुतौ शब्दौ प्रागुक्तौ भौमवैरिणौ । तावेव पश्चादुद्भूतौ मित्रे भौमस्य कीर्तितौ ।। ८९५ ।। चतुर्णामपि शब्दानां नाभसः शत्रुरिष्यते । एवं स्वराणामुद्दिष्टं मित्रामित्रबलाबलम् || ८९६ ॥ स्वस्यां दिशि फलं पूर्ण तदर्द्ध मित्रसद्मनि । शत्रुक्षेत्रे फलाभावो विपरीतमथापि वा ॥ ८९७ ॥ भौमादनन्तरश्चाप्यः सर्वसिद्धिप्रदो भवेत् । विपरीतक्रमेणैव फलनाशकरौ स्वरौ ॥ ८९८ ॥ प्रथमं पार्थिवो नाद स्तैजसस्तदनन्तरम् । वाञ्छितार्थौ स्यातां विपरीतौ ततोऽन्यथा ।। ८९९ ॥ आदौ चेत् पार्थिवो नादः पश्चान्मारुतजो यदि । लाभपूर्वा तदा हा निर्लाभो विपर्ययात् ॥ ९०० ॥ प्रथमो भूमिजो नादो द्वितीयो नाभसो यदि । सुखपूर्व भवेद् दुःखं दुःखात् सौख्यं विपर्ययात् ॥ ९०९ ॥ आप्यस्य पश्चादाग्नेयः फलं कृत्वा विनाशयेत् । व्यत्यासेन समुद्भूतौ व्यत्यस्तफलकारिणौ ॥ ९०२ ॥ Aho! Shrutgyanam प्रथमो जलजः शब्दस्ततश्चेद् वायुसम्भवः । भयं वित्तविनाशाय वैपरीत्येऽपि तादृशौ ॥ ९०३ ॥
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy