SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [विंशतिः २ भागेनैकेन चावश्यं कार्यः कोशस्य सञ्चयः । कोशवान सुखमामोति कोशहीनस्तु सीदति ॥५४॥ इति कोशाध्यायः ॥ ४ ॥ जलदुर्ग गिरिदुर्ग दुर्ग पाषाणनिर्मितम् । इष्टिकाभिः कृतं दुर्ग दुर्ग स्यान्मृत्तिकामयम् ॥ ५४१ ॥ वनदुर्ग मरुदुर्ग दुर्ग दारुविनिर्मितम् । नरदुर्ग च नवमं तेषां वक्ष्यामि लक्षणम् ॥ ५४२ ॥ अगाधेनाय तोयेन वेष्टितं जलजं भवेत् । दुरारोहं च शैलायमुदकेन समन्वितम् ॥ ५४३ ॥ गिरिदुर्ग समाख्यातं नयशास्त्रविशारदः । पाषाणघटितं दुर्गमश्मदुर्गमुदीरितम् ॥ ५४४ ॥ इष्टिकाभिः कृतं सम्यक् सुधालितं समुज्ज्वलम् । इष्टिकादुर्गमाख्यातं परिखावेष्टितं महत् ॥ ५४५ ॥ मृदा विरचितं यत् तु तद् दुर्ग मृत्तिकामयम् । बनदुर्ग समाख्यातं घनं कण्टकशाखिभिः ॥ ५४६ ॥ अन्तःस्थैः सञ्चितं तोयं बहिःस्थानां च दुर्लभम् । मरुदुर्ग समाख्यातं मरुदेशसमं यतः ॥ ५४७ ॥ दारुभिर्वेणुभिः क्लृप्तं दुर्ग दारुमयं स्मृतम् । शस्त्रहस्तैर्महायोधैर्निर्मितं नरदुर्गकम् ॥ ५४८ ॥ एतेषामुत्तमं दुर्ग गिरिजं जलजं तथा । मध्यमानीतराण्याहुः कनिष्ठं स्याच दारुजम् ॥ १४९ ॥ इति नवविचदुर्गलक्षणम् ॥ Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy