SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [विंशतिः २ अशोकपल्लवच्छायं दाडिमीबीजसप्रभम् । विन्ध्ये तापीतटोद्देशे जायते मन्दकान्तिकम् ॥ ५२३ ॥ सिंहले जायते कृष्णमाकरे नीलमन्धिके । पद्मरागभवस्थाने विविध स्फटिकं भवेत् ॥ ५२४ ॥ इति स्फटिकपरीक्षा ॥ ईषत्पीतं पविच्छायं स्वच्छं कान्त्या मनोहरम् । पुष्परागमिति ख्यातं रत्नं रत्नपरीक्षकैः ॥ २५ ॥ इति पुष्परागपरीक्षा ॥ सितं च धूम्रसङ्काशमीपत्कृष्णं सितं तु यत् । वैडूर्य नाम तत् प्रोक्तं मारिनयनोपमम् ॥ ५२६ ॥ इति वैडूर्यपरीक्षा ॥ मधुबिन्दुसमं वाऽपि गोमूत्रादिसमप्रभम् । गोमेदकं तदाख्यातं रत्नं सोममहीभुजा ॥ ५२७ ।। इति गोमेदपरीक्षा ॥ सेतो सागरमध्ये तु जायते वल्लरी तु या। विद्रुमाख्या सुरक्ता सा दुर्लभा रत्नरूपिणी ॥ ५२८ ॥ पाषाणत्वं भजत्येषा प्रयत्नात् कथिता सती। प्रवालं नाम तद् रत्नं वर्णाव्यं मन्दकान्तिकम् ॥ ५२९ ॥ इति विद्रुमपरीक्षा । पनरागस्य नीलस्य ये दोषाः परिकीर्तिताः । . तैरेव दूषितं रत्नं सन्त्याज्यं स्फटिक नृपः ॥ ५३० ॥ १ B सिताभ्रधूम । २ B रत्नं वर्णपरीक्षकैः । Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy