________________
२७०
श्रीशिवराजविनिर्मितोत्रस्थाः खेचरा यदि । क्रूरसौम्यविमिश्राश्च तद्दिने वृष्टिरुत्तमा ॥ १८ ॥ एकः तु समायोगो जायते यदि खेचरैः। तत्र काले महावृष्टिवित्तस्यांशगः शशी ॥१९॥ केवलैः सौम्यपापैर्वा ग्रहैर्विद्धो यदा शशी । तदाऽतितुच्छं पानीयं दुर्दिनं भवति ध्रुवम् ॥ २० ॥ यस्य ग्रहस्य नाडीस्थचन्द्रमास्तद्ग्रहेण च । दृष्टो युक्तः करोत्यम्बु यदि क्षीणो न जायते ॥२१॥ पीयूषनाडीगश्चन्द्रस्तत्र खेटाः शुभाशुभाः। त्रिचतुष्पश्च पानीयं दिनान्येकत्रिसप्तकम् ॥ २२ ॥ एवं जलाख्य नाडीस्थे चन्द्रे मिश्रग्रहान्विते । दिनादिवसाः पश्च दिनानि जायते जलम् ॥ २३ ॥ नीरनाडीस्थिते चन्द्रे तत्रस्थैः पूर्ववद्ग्रहैः । याम दिनार्धकं त्रीणि दिनानि जायते जलम् ॥ २४ ॥ अमृतादित्रये यत्र भवन्ति सर्वखेचराः । तत्र वृष्टिः क्रमाज्ज्ञेया धृत्यर्करसवासरः ॥ २५ ॥ सौम्यनाडीगताः सर्वे वृष्टिदास्ते दिनत्रयम् । शेषनाडी महावाता दुष्टवृष्टिप्रदा ग्रहाः ॥ २६ ॥ निजेला जलदा नाडी भवेद्योगे शुभाधिके । क्रूराधिकसमो योगो जलदाऽप्यम्बुदाहिका ॥२७॥ याम्यनाडीस्थिताः क्रूरा अनावृष्टिप्रसूचकाः । शुभयुक्ता जलांशस्थास्त्वतिवृष्टिप्रदा ग्रहाः ॥ २८ ॥ एकनाडीसमारूढी चन्द्रमोधरणीसुतौ । यदि तत्र भवेज्जीवस्तदा जलमयी मही ॥ २९ ॥ बुधशुक्रौ यदैकत्र गुरुणा च समन्वितौ । चन्द्रयोगे तदा काले जायते वृष्टिरुत्तमा ॥ ३० ॥ जलयोगे समायाते तदा चन्द्रसितौ ग्रहौ । कूरेदृष्टौ युतौ वाऽपि तदा मेघोऽल्पवृष्टिदः ॥३१॥ उदयास्तमये मार्गे वक्रे युक्तौ च ( क्ताश्च ) संक्रमे । जलनाडीगताः खेटा महावृष्टिप्रदा मताः ॥३२॥
इति सप्तनाडीचक्रम् ।
अथ सस्योत्पत्तिविचारः । . वृश्चिकवृषप्रवेशे भानोर्ये बादरायणप्रोक्ताः। ग्रीष्मशरत्सस्यानां सदसद्योगाः कृतास्त इमे ॥ १॥ भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तः । बलवद्भिः सौम्यैर्वा निरीक्षितैष्मिका वृद्धिः ॥ २॥ अष्टमराशिगतेऽर्के गुरुशशिनोः कुम्भसिंहसंस्थितयोः । सिंहघटस्थितयोर्वा निष्पत्तिग्रीष्मसस्यस्य ॥ ३ ॥ अर्कात्सिते द्वितीये बुधेऽथवा युगपदेव संस्थितयोः । व्ययगतयोर्वा तद्वन्निष्पत्तिरतीव गुरुदृष्टया ॥ ४ ॥ शुभमध्येऽलिनि सूर्याद्गुरुशशिनोः सप्तमे परा संपन् । अल्पादिस्थे सवितरि गुरौ द्वितीयेऽर्धनिष्पत्तिः ॥ ५॥ लाभहिबुकार्थयुक्तैः सूर्यादलिगात्सितेन्दुशशिपुत्रैः । सस्यस्य परा संपत्कर्मणि जीवेऽथवा चाऽऽद्या ॥६॥
Aho! Shrutgyanam