________________
(९६)
भावप्रकाशनिघण्टुः भा. टी. ।
जीवनो मधुरश्वापि नाम्ना स परिकीर्तितः । जीवनीयगणः प्रोक्तः शुक्रकृत बृंहणो हिमः ॥ ५८ ॥ गुरुर्गर्भप्रदः स्तन्यकफकृत्पित्तरक्तहृत्
तृष्णां शोषं ज्वरं दाहं रक्तपित्तं व्यपोहति ॥ ५९ ॥ अष्टवर्ग - ( जीवक, ऋषभक, मेदा, महामेदा, काकोली, क्षीरकाकोली, ऋद्धि, वृद्धि) जीवन्ती, मुद्रपर्णी तथा माषपर्णी इनको जीवनीय गण कहते हैं । जीवनीथगन - वीर्य हारक, धातुमको पुष्ट करनेवाला, शीतल, भारी, गर्भको देनेवाला, दूध तथा कफको उत्पन्न करनेवाला, पित्त, तथा रक्त, प्यास, शोष, ज्वर, दाह तथा रक्तपित्त इन को नष्ट करता है ॥५७-५९॥ शुक्कुर क्तैरडौं । शुक एरंड आमंडश्चित्र गंधर्वहस्तकः । पंचांगुली वर्धमानो दीर्घदंडो व्यवकः ॥ ६० ॥ रक्तोऽपरोरुबूकः स्यादुरुबू को रुस्तथा । व्याघ्रपुच्छश्व वातारिश्चंचु हत्तानपत्रकः ॥ ६१ ॥ एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत् । शूलशोथकटीवस्तिशिरःपीडोदरज्वरान् ॥ ६२ ॥
1
ब्रध्नश्वासकफानाहकासकुडाममा हतान् एरंडपत्रं वातघ्नं कफ क्रिमिविनाशनम् ॥ ६३ ॥ मूत्रकृछ्रहरं चापि पित्तरक्तप्रकोपनम् । वातार्य्यप्रदलं गुल्मवस्तिशूलहरं परम् ॥ ६४ ॥ कफवातकृमीन हंति वृद्धिं सप्तविधामपि । एरंडफलमत्युष्णं शूलगुल्मा निलापहम् ॥ ६५ ॥