SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ५उद्योगपर्व-१सर्गः] बालभारतम् । उद्योगपर्व । प्रथमः सर्गः। संसारवारिधिद्वीपं द्वैपायनमुनिर्मुदे । मध्यस्थोऽप्याश्रिताशास्त्रैर्यः प्रीणात्यमृतोपमैः ॥ १ ॥ अथायमत्र मन्त्राय राजा सह सहोदरैः । आससाद सदः सार्ध सीरिश्रीजानिसृञ्जयैः ॥ २॥ अष्टमिर्विष्टपाधीशैरेभिरुत्कीर्तिसिन्धुभिः । सभेयं शुशुभे तुङ्गैरचलेव कुलाचलैः ॥ ३ ॥ दन्तांशुदम्भाद्दधतीं सुधाविजयजं यशः । ज्ञातनीतिपथो वाचमथोवाच तपःसुतः ॥ ४ ॥ ज्ञातनिःशेषशास्त्रस्य व्याहरे यत्पुरो हरेः । रत्नाचलस्य तत्काचलवढौकनिकायते ॥ ५ ॥ प्रीत्यैव वच्मि वा किंचित्पुरोऽपि त्रिजगद्गुरोः । स्नानं तन्याद्भुनीमूर्ध्नः शंभोरम्भोमयं न कः ॥ ६॥ बन्धुवर्गेण न समं समरो मम रोचते । जये पराजयेऽपि स्यानश्वरं कुलमैन्दवम् ॥ ७ ॥ संप्रहारः सहामीभिः खकैः क्व कुशलाय नः । खैरेव बिम्बितः साकं रणः केशरिणामिव ॥ ८ ॥ खीया हन्त न हन्तव्यास्तेऽपराधपरा अपि । कश्छिन्ते रभसोत्कीर्णदृशं नखमपि स्वकम् ॥९॥ जितेषु तेष्वकीर्तिर्या सामानपि हि लिम्पति । लिप्तेऽङ्गे कर्दमैर्बिम्बमलिप्तमपि लिप्तवत् ॥ १० ॥ नीतिर्द्विषापि साध न योद्धष्यं कुसुमैरपि । तत्कि युध्यामहे साधे बन्धुभिर्धरायुधाः ॥ ११॥ १. 'अथारिमथ मन्त्राय' ख; 'अथारिमन्नमाधाय' ग. २,३. 'ज्ञान' क. ४. व्याहरेत क. ५. 'दर्श' क. - Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy