SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ३ वनपर्व -२ सर्गः ] बालभारतम् । ददत्प्रतिपदं मुदा द्विजजनाय दानान्ययं नयं च जनयञ्जनैर्जगति धर्मवीरोत्तमः । उपास्य परितोऽप्युदक्ककुभि सर्वतीर्थावलीः सुबाहुपुरमासदत्तदनु मेदिनीकामुकः ॥ ११४ ॥ इति श्रीजिनदत्तसूरिशिष्य श्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के आरण्यके पर्वणि तीर्थोपासनो नाम प्रथमः सर्गः । द्वितीयः सर्गः । कनीनिकीभवन्ध्यानदृशि दर्शयतां सताम् । संसारपारावारस्य पारं पाराशरो मुनिः ॥ १ ॥ [आससादाम्बिकेयस्य सभां वैचित्रिणार्चितः । व्यासः पृष्टः पृथापुत्रवृत्तजिज्ञासुनावदत् ॥ २ ॥ पाण्डवानां प्रियो विष्णुहरेः प्रियतमा इमे । युष्माभिर्विदितं सर्वं कृष्णायाश्वीरकर्षणे || ३ || शिपिविष्टभवा विष्णोः कराग्रक्षतजा वनम् । धृतचीराञ्चलेन स्राक्सत्सु स्वीयेषु हाकरोत् ॥ ४ ॥ विचार्यैतद्विचित्राणि समक्षं सर्वभूभुजाम् । वासांस्यापूरि कृष्णेन कृष्णायास्तन्तु संख्यया ॥ १ ॥ केन जेयोऽर्जुनः संख्ये दिव्यास्त्रकृतसाधनः । प्रायेणाप्यसुहा भोगी किं पुनर्विषपानतः || ६ ||] व्यासादासाद्य तत्कर्णविषं पार्थकथामिषम् । दिनानि तानि गान्धारीजानिर्दुःखादवाहयत् ॥ ७ ॥ ततश्चरणचारेण वैचित्रितनयास्तु ते । परिमुक्तरथायुक्तं चेलुर्भूभृद्विभुं प्रति ॥ ८ ॥ भूधराधिपविभानिभालनोत्तालभालतललम्बि लोचनम् । लोमशस्तदनु सोमवंशजं चित्तवल्लभमभाषत क्षितेः ॥ ९ ॥ १८७ १. 'वीरो मनः' क ख २. धनुश्चिहान्तर्गतपाठः ख-ग-पुस्तकयो बुटितः ३. 'कथानकम्' खग. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy