SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १७६ काव्यमाला | विस्तार्य बाहुयुगमित्यगमन्निकामकोपारुणोरुनयनः पवनाङ्गजन्मा ॥ ९८ ॥ एवं किरञ्शरकदम्बकमाम्बिकेयसेनासु दुर्धरधनुर्धरधैर्यरोधम् । युद्धे करोम्यहमिति प्रववर्ष गच्छ विष्वक्शतऋतुसुतः सिकतावितानम् ॥ ९९ ॥ आच्छिद्य मेमुरदुरोदरदम्भजृम्भमाणप्रभावबलिनं युधि सौबलेयम् । स्यादुक्तमस्य विशदत्वमिति स्वमास्यं लिहवा मषीभिरगमत्सहदेववीरः ॥ १०० ॥ रङ्गत्यरातिनिकरे शिरमङ्गमङ्ग शृङ्गारितं भुजभृतां निभृतं न भाति । इत्यङ्गनाजनमनोरमरूपरोचि धूलीविपशबलो नकुलो जगाम ॥ १०१ ॥ इत्यातुरं विशतु हस्तिपुरं पुरंध्री वर्गो दिनैः कतिपयैरपि कौरवाणाम् । इत्याललाप बहुशापमबद्धकेशा सा पाण्डुपुत्रसुदती रुदती प्रवासे ॥ १०२ ॥ अल्पैरहोभिरिति कौरवकैरवाक्ष्यो गीतानि बिभ्रतु शपन्निति कोपशोणः । धौम्यो जगौ परिपतन्पथि याम्यरौद्र सामानि नैर्ऋतदिगुद्धृतदर्भपाणिः ॥ १०३ ॥ उत्पाताः शतशोऽभवन्पुरि समागम्य स्वयं नारदो वंशोच्छेदमथादिशत्कुरुपतेश्चिन्ताज्वलच्चेतसः । तद्भीत्यैव समागतेषु शरणं दुर्योधनाद्येषु च द्रोणो वीररसैकवाधिरभयं दत्त्वासृजन्मङ्गलम् ॥ १०४ ॥ १. 'स्याद्युक्त' ग. • Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy