SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। श्रोणिमन्तं कुमारेषु कोशलेषु बृहबलम् । विनिर्जित्य स तेजस्वी ययावुत्तरकोशलान् ॥ ५९॥ संगराभङ्गुरैरीशैः सर्वदा तत्र गर्विताम् ।। अलज्जयदयोध्यां स दीर्घप्रज्ञं नृपं जयन् ॥ १० ॥ सरयूसरिता तत्र तद्दन्तिमदमिश्रया ।। खर्धनी प्राप संभेदं कालिन्येव द्वितीयया ॥ ६१ ॥ गोपालकच्छराजादिराजराजीवचन्द्रमाः । जगामोदानसंग्रामरसी वाराणसीमसौ ॥ ६२ ॥ जित्वा सुमन्तुनामानमुद्दामानमिलापतिम् । कीर्तिः प्रतेने तेनेह द्वितीयेव युवाहिनी ॥ ६३ ॥ सोऽत्र विश्वेश्वरं नत्वा प्रतापयशसी दधौ । तद्भालनेत्रबालेन्दुप्रभयेवाद्भुतप्रभे ॥ ६४ ॥ तेन तेजोऽग्निभिर्मत्स्यदेशादिक्षितिपेन्धनैः । चिरं देहे विदेहेषु जनको मिथिलाधिपः ॥ ६५ ॥ कृष्टोग्रधन्वनो जाग्रजनके मिथिलापुरे । रामस्येवाभवत्तस्य करग्रहमहोत्सवः ॥ ६६ ॥ अथेन्द्रपर्वते सुझान्प्राच्यसुह्मान्सुपक्षकान् । जिगाय मागधान्दण्डदण्डधारधराधवौ ॥ १७ ॥ गिरिव्रजे जरासंधसुतं कृत्वा करप्रदम् । स तैरेव वृतः सर्वैर्गोंडदेशानुपाद्रवत् ॥ ६८ ॥ कम्पयन्भूभृतः सैन्यैः स्थावराञ्जङ्गमानपि । ततः प्रापैष गौडेषु चम्पा निष्कम्पसंपदम् ॥ ६९ ॥ तं वीक्ष्य प्राप्तविषयं विषमायुधविग्रहम् ।। स्त्रीलोक इव चम्पायाः कम्पातः पार्थिवोऽभवत् ॥ ७० ॥ १. 'तस्य' क.. Aho I Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy