SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ११६. काव्यमाला | विधुरुचि शुचिवस्त्राच्छादमुत्क्षिप्य रात्रिप्रथित कुसुमपूजाहारिताराकुलं च । हरमरकतलिङ्गश्रीसहक्षेऽन्तरिक्षे स्नपनमकृत भानुर्भानुकाश्मीरनीरैः ॥ १२ ॥ द्विषति शशिनि दूने नूनमम्भोजभारैः स्मितमवतमसौधे म्लानमेव प्रदीपैः । अपि सदृशरुचीनामन्तरं किंचिदेत - ज्जयति जलमयानां तारतेजः स्पृशां च ॥ ३३ ॥ निशि सरसिरुहिण्याः संपदां संप्रदायं यदहरत तदेष प्रातरायाति सूर्ये । विधुरपरमहीभृन्मौलितो दत्तझम्पः स्फुटमरुददुदन्वत्तीरपङ्केऽर्धमग्नः ॥ ३४ ॥ अहरत हरगर्व पर्वतोऽयं प्रतीच्याः स्फुरिततिमिरभित्तिद्योतिताधोविभागाः । कपिशपटुजटालीबन्धबन्धुत्वपात्र द्युतिपरिचितलेखामात्रशीतांशुमौलिः ॥ ३५ ॥ तरणितरुणिमानं प्राप्य रक्ता किल द्यौरिति सितरुचिरब्धौ दुःखितः पश्चिमाद्रेः । द्रुतमतनुत झम्पां वार्धकाधिक्यभावा गुलितपलितपङ्किः प्रोषिताभीषुदम्भात् ॥ ३६ ॥ व्यरुचदलिकदम्बं हेमरागैः परागै र्विकचकमलकोणे बिभ्रदङ्गं पिशङ्गम् । हिममहिममनोज्ञे भानुमद्भानुवह्नि ज्वलितमिव विलीनं वृन्दमिन्दुप्रियाणाम् ॥ ३७ ॥ गगनमलिनमानं धूमतामानयन्त्यः स्फुटमदधत भासो भास्वरा भास्करस्य । १. भानवः किरणा एव काश्मीरनीराणि कुङ्कुमजलानि तै:. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy