SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ७ सर्गः ] बालभारतम् । दोला कौतुकवनीपृथुकर्णपाशलोलासु कुण्डलितुमीषुरुदारभासः ॥ ६२ ॥ भर्ताधिरोपयति यावद्दश्य दोर्भ्या तावद्वधूरधिरुरोह रयेण दोलाम् । अभ्यस्तनित्यपुरुषायितलाघवानि श्रोणिस्तनोन्नतिनताप्यभिदर्शयन्ती ॥ ६३ ॥ प्रेङ्खोलने परिवृढेन कुतूहलेन काप्यध्यरोषि रमणी समुदस्य दोर्भ्याम् । दूरास्त्रपातबलसंभ्रमभाजि यन्त्रे शस्त्रं जगत्रयजितेव मनोभवेन ॥ ६४ ॥ दोलाधिरोहपरयापरया प्रियस्य पृष्ठे न्यधीयत पदं यदलक्तकाङ्कम् । पञ्चाङ्गुलीपरिचितेन स तेन पृष्ठ रङ्गनिषङ्ग इव पञ्चशरो विरेजे ॥ ६५ ॥ दोलाधिरोपकृतये रभसादुदस्य कोऽपि प्रियां कृशतरो दरबद्धमुष्टिः । त्रासातुरं स्मरजितापि मृणालधन्वा नन्वात्तवज्रजयशक्तिरिवाशशङ्के ॥ ६६ ॥ दोलास्पृशां मृगदृशां वदनानि रेजुर्दण्डावलम्बनतबाहुयुगान्तराले । सद्यो मृणालजनितेषु शरासनेषु बाणीकृतानि नलिनानि मनोभुवेव ॥ ६७ ॥ किंचिन्नतस्फुरितपृष्ठतताग्रपादं लोलालकं रणितने पुरकङ्कणादि । नृत्यन्नितम्बमुपविष्टरतानि दोला लीलायितं स्मरयति स्म नितम्बिनीनाम् ॥ ६८ ॥ १. 'चाङ्ग' ग. २. 'कङ्कणनूपुराणि' क. Aho ! Shrutgyanam ८५
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy