SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-७सर्गः] बालभारतम् । सेयं दशापि तव तप्ततनूविवर्त संवर्तमर्मरितबालमृणालशय्या । तुभ्यं सदैव नलिनानि समानयन्ती लोकेऽपि कोपिनि बभूव निरुत्तराहम् ॥ ५० ॥ एषा पदे निपतितामि कुरु प्रसाद मद्यास्तु ते रिपुजनो विफलाभिलाषः । इत्थं विचक्षणसखीवचनानुरोधाप्राणाधिनाथमनुकूलयति स काचित् ॥ ५१ ॥ (पञ्चभिः कुलकम्) रन्तुं परः करयुगेन गृहीतपाद पद्मः सृजन्ननुनयानभिमानवत्याः । उत्पत्य दीनवचनोऽप्यनिरीक्ष्य वक्र तस्याः शुशोच कुचगौरवमप्यभीष्टम् ॥ १२ ॥ यस्या ध्वनिर्मम गिराप्युपमीयते सा स्यात्कीदृशी पिकवधूः सखि दृश्यमेतत् । इत्युक्तिकैतववती वनमाप कापि पूर्व गतेऽपि दयितेऽनुनयान्निरस्ते ॥ ५३ ॥ प्रौढागसापि दयितेन पदप्रणाम___ लीलावतापि रचितं बत गोत्रभेदम् । तं काचिदश्रुतवतीव मनोभवज्या__टंकारराववेलिता चलिता वनाय ॥ १४ ॥ एषा कथं परिहरिष्यति मानमित्थं चिन्तानिधिर्नतमुखो विलिखन्धरित्रीम् । उद्दामकामशरपीडितया कयापि कान्तो नितान्तमनुनीय वनाय निन्ये ॥ ५५ ॥ १. 'मानेन' क. २. 'परिवृढेन' ख-ग. ३. 'तत्' क. ४. 'मनोभुवि' ग. ५. 'कलितें ग. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy