SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-७सर्गः] बालभारतम् । नयविनयविवेकादभ्रविभ्राजितश्री स्तदवनिवनिताया वल्लभो धर्मवीरः । घनधनजनपूर्ण पालयित्वा समन्ता दकृत सुकृतदृश्यं तत्पुरं ब्रह्मणोऽपि ॥ १०४ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वणि पाण्डवराज्यार्थलाभवर्णनो नाम षष्ठः सर्गः । सप्तमः सर्गः। सेवध्वमध्वरभुजामपि सेवनीयं पाराशरं मुनिमवाप्तयदङ्गसङ्गः । वर्णः शुचित्वमसितोऽपि तदाप केश___ व्याजेन येन शिरसा ध्रियते न कैः कैः ॥ १ ॥ अन्येयुरर्जुनहरी तपसस्तनूज__ मापृच्छय पौरपरिवारपरीतपाचौँ । जाते वसन्तसमये यमुनोमिबिन्दु सिक्ताय खाण्डववनाय गतौ विहर्तुम् ॥ २ ॥ अन्तःप्रसृत्वरपतङ्गभवस्त्रेवन्ती नीरप्रभाभिरिव नीरदनीलवर्णम् । आलोक्य खाण्डववनं पुरतो मुरारि रानन्दकन्दलितगीनिजगाद पार्थम् ॥ ३ ॥ उल्लचितं च परितः परितापितं च तिग्मांशुना कलितदुःखमिवान्तरिक्षम् । पश्येदमत्र यमुनाजलसीम्नि वेल्ल द्वल्लीजटं वनमिषेण तपस्तनोति ॥ ४ ॥ वर्षाभ्रमादिव सुसंहतशाखिसंघ शाखातिरोहितशशिद्युमणौ मयूराः । १. यमुना. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy