SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रथम-विमर्शः कार्यम् । यस्तु तदानीं गोचरादिना प्रतिकूलः सोऽपचयकरः तस्य ग्रहस्य वारे कृतं कथमपि न सिध्यतीति । एवमग्रेऽप्युपचयकरापचयकरशब्दौ भावनीयौ । वारेषु कालहोरा: प्राह होगः पुनरर्कसितज्ञचन्द्रशनिजीव भूमिपुत्राणाम् । सार्धघटीयमानाः स्वदारतस्तास्तु पूर्णफलाः ॥ १७ ॥ व्याख्या स्वकारत इति यद्दिने यो वारस्तस्याऽऽद्या होरा, द्वितीया षष्टस्य तृतीया ततोऽपि षष्ठस्येत्यादि । अत एवाह - ' - "अर्कसितज्ञचन्द्रशनिजीभूमिपुत्राणां " इति । अर्कात् किल सित: षष्ठः सिताञ्च ज्ञः षष्ठः, ज्ञच्च चन्द्रः षष्ठ इत्यादि । एवं चार्कवारेऽर्कशुक्रबुधादीनां होराः पुनः पुनस्तावत्स्युर्यावदहोरात्रे षष्टिघटी मिश्रनुवैिशतिहोगः स्युः | सोमवारे वाद्या चन्द्र होराऽभ्येति पुनस्तथैव चतुर्विंशतिर्यावद्भीमवारे आद्या भौमहोराऽभ्येतीत्यादि । स्थापनाअग्रे च राइयर्धस्य होरासंज्ञा वक्ष्यते इत्यत आसां कालहोरेति नाम ज्ञेयं । स्ववार इत्यस्य च घण्टालोलाम्यायेनोभयतोऽभिसम्बन्धनात् "स्ववारतस्तास्तु पूर्णफला इति” शुभाशुभस्य तद्दिनवारम्य सम्बन्धिन्यां होरायां कार्यकर्तुः पूष्णं विंशतिर्विशोपर्क शुभःशुभं फलं स्यात्, पञ्चदशविशोष के वारफले पञ्चविंशोपकस्य होराफलम्य मिलनादित्यर्थः । अत एवाह लल्ल:" वारफलं होरायामिति " | होराप्रयोजनं स्विदं - यस्य ग्रहस्य वारे यत्किञ्चित्कर्म प्रकीर्त्तितम् । तत्तस्य कालहोरायां पूर्ण स्यात्तूर्णमेव हि ” ॥ १ ॥ इति यतिवल्लभे । तथा— होराफलवारफले निन्द्ये द्वे अपि न जातु गृह्णीत | एकस्मिन् शुभफलदे तयोश्च कार्य शुभं कुर्यात् ॥ १ ॥ इति व्यवहारप्रकाशे । वारेषु कुवेलाः प्राह- मंगल २॥ गुरु २॥ "" 반드 २|| रविघटी २॥ २४ कालहोराच --- चन्द्र २॥ २॥ शुक्र २॥ बुध Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy