SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १८८ << भाद्रादिमासन्रयापेक्षया नागचारस्य दिक्षु शिरादयः । उत्तर पश्चिम आरम्भ-1 -सिद्धिः फा. चै. वै. पुच्छं ज्ये. आ. श्री. कुक्षिः पृष्ठं मार्ग. पो. मा. शिरः भाद्र. आ. का. दक्षिण ततो भाद्रपदादिमास त्रिके प्राच्यां वास्तोः शिरः, दक्षिणस्यां पृष्ठ पश्चिमायां पुच्छं, उत्तरस्यां कुक्षिः । मार्गादिमासत्रिके दक्षिणादिचतुर्दिक्षु शीर्षादीनि, फाल्गुनात्रिके पश्चिमादिचतुर्दिक्षु, ज्येष्ठादिम |सत्रि के तूत्तरादिचतुर्दिक्षु । अयं भावःकुक्षावेव प्रथमं खननारम्भः कार्यः, नान्यदिक्षु । यदुक्तं 1 " शिरः खनेन्मातृपितृन्निहन्यात् खनेश्च पृष्ठे भयरोगपीडाः । पुच्छं खनेत्स्त्रीशुभगोत्रहानि, स्त्रीपुत्ररत्नान्नवसूनि कुक्षौ ॥ १ ॥ " इति दैवज्ञवल्लभे । केचिद्वास्तोर्वत्सनामाहुः । भनेन च वास्तोरङ्गदिकथनेन खातादौ दिनियम उक्तः । विदिनियमः पुनरेवं " पूर्व ईशानादिषु कोणेषु वृपादीनां त्रिके त्रि । शेषाहेराननं त्याज्यं विलोमेन प्रसर्पतः ॥ १ ॥ "" अस्यार्थः -- संहारेण शेषस्त्रिभिस्त्रिभिर्मासैर्भ्रमति, ततो यदा मासत्रयं तन्मुखमीशाने तदा आग्रेये मासत्रयं नाभि:, नैर्ऋते मासत्रयं पुच्छं, वायव्ये मुस्कलं श्रेयः । यदा वायव्ये मुखं तदेशाने नाभिः, आझेये पुच्छं, नैर्ऋऋते मुत्कलं, एवं संहारेण शेषो भ्रमति । वृषादित्रिके ईशाने मुखं, सिंहादित्रिके वायव्ये, वृश्चिकादित्रिके नैर्ऋते, कुम्भादित्रिके त्वाग्नेये मुखं । स्थापना चेयं एवं च" विदित्रयं स्पृशस्तिष्ठेत्स्ववक्त्र १ नाभि २ पुच्छकैः ३ । शेषस्तत्रितयं त्यक्त्वा भूखातकार्यमाचरेत् ॥ १ ॥ नाभौ चम्रियते भार्या धनं पुच्छे मुखे पतिः । इति मत्वा शिलान्यासे भूखाते तत्रयं त्यजेत् ॥ २ ॥ " Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy