SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १८४ आरम्भ-सिद्धिः ध्रुवं १ धन्यं २ जयं ३ नन्दं ४ खरं ५ कान्तं ६ मनोरमम् ७ । सुमुखं ८ दुर्मुखं ९ क्रूरं १० सुपक्षं ११ धनदं १२ क्षयम् १३ आक्रन्दं १४ विपुलं १५ चैव विजयं १६ चेति षोडश । सम्प्रत्यमीषां पस्त्यानां प्रस्तारः प्रतिपाद्यते ॥ ७१ ॥ युग्मम् ॥ व्याख्या - एताः किल ध्रुवादिसंज्ञाः सान्वर्थाः तेन खर १ दुर्मुख २ क्रूर ३ क्षया ४ क्रन्दा ५ ख्यानि गृहाणि अशुभानि । तदुक्तं वास्तुशास्त्रे - “थैर्ये १ धनं २ जयः ३ पुत्रो ४ दारिद्र्य ५ सर्वसम्पदः ६ । मनोहोदः ७ श्रियो ८ युद्धं ९ वैषम्यं १० बान्धवा ११ धनम् १२ ॥१॥ क्षयश्च १३ मृत्यु १४ रारोग्यं १५ सर्वसम्पदि १६ ति क्रमात् । ध्रुवादीनां फलं ज्ञेयं " इति । केचित्सुपक्षस्थाने विपक्षनामाहुः । पस्त्यानि गृहाणि ॥ प्रस्तारप्रकारमाहगुरोरधो लघु न्यस्येत् पृष्ठे त्वस्य पुनर्गुरून् । अग्रतस्तूर्ध्ववद्देयाद्यावत्सर्वलघुर्भवेत् ॥ ७२ ॥ व्याख्या - आपक्तौ चत्वारो गुरवः स्थाप्याः, शेषप इङ्क्तिष्वाद्यगुर्वघो दुः, अग्रे तूर्ध्वसमं । यत्र तु पृष्ठे रिक्तं स्थानं तिष्ठति तेषु स्थानेषु गुरवो देयाः, एवं तावद्यावत्सर्वलघुरन्त्यो भङ्गः स्यात् । चतुरक्षरवृत्तजाताविवात्र षोडश भङ्गाः । स्थापना यथा प्रस्तार स्थापना ง SS S S ५ऽऽ । ऽ २ । SS S ६ । ऽ । ऽ ३ sss 8 || S S SIIS ८।।।s <SS SI १० ।ss। 99 SIS I १२ ।। ऽ। १३ऽऽ ।। १४ । ऽ ।। - १५ ऽ ।। १६ ।।।। अत्र प्रस्तारवन्नष्टोद्दिष्टादिप्रत्ययपञ्चकमपि सुवचमेव परं ग्रन्थगौरवमयादनुपयोगित्वाच्च नोच्यते ॥ अथैभिः षोडशभङ्गर्ध्रुवादिनामोत्पत्तिमाहपूर्वादितो गृहद्वाराद्दिक्ष्व लिन्दैर्लघूदितैः । प्रदक्षिणस्थैर्वेश्मानि स्युर्भुवादीनि षोडश ॥ ७३ ॥ Aho ! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy