SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आरम्भ-सिद्धिः - अथ तारासु वाच्यासु पूर्व तत्संबद्धं नाडीवेधमाह-..... चक्रे त्रिनाडिके धिष्ण्यमेकनाडीगतं शुभम् । गुरुशिष्यवयस्यादेन वधूवरयोः पुनः ॥ २४ ।। व्याख्या-नाड्योऽत्र रेखारूपा लक्ष्याः, ततो येषां जन्मभानि नामभानि वा एकनाडीगतानि स्युस्तेषां नाडीवेधोऽस्ति । भिन्नभिन्ननाङीगतत्वे तु स नास्तीति भावः । विनाडिकचक्रस्थापना यथा अभरोमपिओमपहिचिखा विभज्ये सारे अंधजिरे वयस्यादेरिति, आदिपदात्प्रभुभृत्यादिसर्वद्वयेष्वपि संबन्धिनोमिथो नाडीवेधः शुभः। वधूवरयोरिति, दम्पतियोगे तु नाडीवेधो न शुभः। उक्तञ्च हर्षप्रकाशे“ सुअसुहि सेवयसिस्सा घरपुरदेस सुह एगनाड़ीआ । कन्ना पुण परिणीआ हणइ पई ससुरं सासुं च ॥ १ ॥” विशेषस्तु-सुतसुहृदादीनां नाडीवेधसद्भावे विरुद्धयोनिकभयोगोऽपि न दुष्यति । दम्पत्योनीडीवेधे तु फलमेवम्__ " हृन्नाडीवेधतो भर्तुमध्यनाडीव्यधे द्वयोः ।। ... पृष्टनाडीव्यधे नार्या मृत्युः स्यान्नात्र संशयः ॥ १ ॥" भाद्यनक्षत्रसंगता या सा हृन्नाडी। “समासन्ने व्यधे शीघ्र दरवेधे चिरेण वा । वेधान्तरभमानेऽत्र वर्षे दुष्टं प्रजायते ॥ २ ॥" अपि च यदि नक्षत्रवेधस्त्यक्तुं न शक्यते, तदाऽपि पादवेधस्त्याज्य एव । उक्तञ्च नरपतिजयचर्यायाम्" एतच्चक्रं समालिख्य अश्विन्यायह्रिपङ्क्तितः । वेधो द्वादशनाडीभिः कर्तव्यः पतिकन्ययोः ॥ १ ॥ " एवं निरन्तरो येषां दम्पतीनां भवेयधः । तेषां मृत्युनं सदेहः सान्तरस्त्वल्पदुःखदः ॥ २ ॥ " तथा तत्रैव ग्रन्थे दम्पतिवदेवतामंत्रयोर्गुरुशिष्ययोगे च नाडीवेधो दुष्ट इत्युक्तं । तथाहि " एकनोडीस्थिता यत्र गुरुमंत्रश्च देवता । । - तत्र द्वेषं रुजं मृत्यु क्रमेण फलमादिशेत् ॥ १॥" Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy