SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १०४ आरम्भ-सिद्धिः % उपकुल्यानि भरणी ब्राह्म पूर्वात्रयं करः । ऐन्द्रमादित्यमश्लेषा वायव्यं पौष्णवैष्णवे ॥ १२ ॥ व्याख्या-वैष्णवं श्रवणम् ॥ पूर्वेषु जाता दातारः संग्रामे स्थायिनां जयः। अन्येषु त्वन्यसेवार्ता यायिनां च सदा जयः । १३॥ व्याख्या--स्थायिनामिति एषु भेषु यदि युद्धं स्यात्तदा स्वस्थानस्य राहो जयः स्यात्, चटित्वाऽऽयातस्य तु राज्ञः पराजयः स्यात् । अन्येषूपकुल्येषु जाता भन्यसेवकाः स्युः, युद्धे च यायिनां जयः, नागराणां पराजयः, येन प्रथमं यात्रोद्यमः कृतः स यायी, येन पश्चात् स नागरः ॥ कुलोपकुलभान्यार्दाभिजिन्मैत्राणि वारुणम् । फलन्त्येतानि पूर्वोक्तद्वयसाधारणं फलम् ॥ १४ ॥ व्याख्या- साधारणमिति, जाता दातारोऽपि स्युरन्यसेवकाश्च, युद्धे चसन्धिः स्यात् । उक्तं च--" कुलोपकुलभे सन्धिरिति " ॥ वाराणां कुल्यादित्वमाह गुर्वार्कीन्दवः कुल्या उपकुल्यः कुजः सितः। तमश्चाथ बुधो मिश्रस्तत्र नक्षत्रवत्फलम् ॥ १५॥ व्याख्या-तमो राहुः । अयं वारत्वाभावेऽपि ग्रहप्रसङ्गादूचे । मिश्रः कुलोपकुलः । केचित्तिथिवारवेलाराशियोगेन कुल्यत्वमाहुः, तथाहि " सूर्योदये कुजस्याह्नि नन्दा वृश्चिकमेषयोः १ । कुलीरयुग्मकन्यानां भद्रायामे बुधाहनि२ ॥ १ ॥" अन्न यामे इति प्रहरदिनचटनसमये इत्यर्थः । "चापसिंहघटानां च मध्याह्ने वाक्पती जया३ । वणिग्वृषभयो रिक्ता त्रियामान्ते भृगोदिने४ ॥ २॥" त्रियामान्ते इति तृतीयप्रहरप्रान्ते । " सूर्यास्ते शनिवारे तु पूर्णा स्यान्नक्रमीनयोः ५।। कुलजास्तिथयो वारे वेलायां राशिषु क्रमात् ॥ ३ ॥" एभियोगैर्जाताः कुल्यास्तत एव चोत्तमाः स्युरित्याशयः ॥ रविनरमाह Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy