SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ द्वितीय विम अथ शनेर्दुष्टत्वान्नक्षत्रगोचरं पृथगाहमन्दर्क्षतः प्रथम १ वेद ४ षड ६ ब्धि ४ बाण ५ त्रि३ द्वये २ क १ चन्द्र १ मितभेषु यथाक्रमेण । पीडा १ विभूति ५ पथ ११ बन्धन १५ धर्म २० लाभ२३ पूजा२५ विभूत्य२६ पमृतीः २७ फलमूचुरुचैः ||५० ॥ व्याख्या - मन्दर्क्षत इति शन्याक्रान्तभात्स्वजन्मभं यावद्गण्यं । अभिभूति: पराभवः । अपमृतिरपमृत्युः । अत्र चानुक्तोऽपि शनिर्नराकारोऽभ्यूः । यदुक्तं यतिवल्लभे "यस्मिन् शनिश्चरति वक्रगतं तदृक्षं, चत्वारि दक्षिणकरेऽह्नियुगे च षट्कम् चत्वारि वामकरगाण्युदरे च पञ्च, मूर्ध्नि त्रयं नयनयोद्वितयं गुदे च ॥१॥ नवरमत्र द्वितयमिति यदा नराकारः पट्टकादौ क्वचिदालिख्यते, तदा गुदगुह्ययोरैक्यमेव श्यत इति कृत्वाऽत्र गुद एव द्वयं विवक्षितं, सूत्रकृता तु तयोः पार्थक्यविवक्षया स्थानद्वयेऽप्येकैकं नक्षत्रमूचे । तत्स्थापना यथा— । शनिनरः । मुखे १ पीडा दक्षिणकरे ४ लक्ष्मी पादये ६ पंथाः वामकरे ४ बंधनं धर्मः ५ उदरे मस्त नेत्रद्वये गुदे ३ लाभः पूजा मृत्युः 3 रुद्रयामले तु नवग्रहाणामपि नराकारस्थापनया नक्षत्र गोचरफलान्युचिरे । तत्र रविनरं सूत्रकृदेव जातकाधिकारे वक्ष्यति । शेषग्रहनरास्त्वेवमू दृग् ३ बाहुयुग्म ६ वक्त्रेषु ३ भानां प्रत्येकतस्त्रिकम् १२ । हृदि सप्त १९ तथा गुह्ये चतुष्कं २३ पञ्चकं पदोः २८ ॥ १ ॥ वक्त्रे पीडां भृशं चक्षुर्हदयेषु शुभं सुखम् । बालभि मृतिं गुह्ये भ्रमं दत्ते पदोः शशी ॥ २ ॥ इति चन्द्रनरः ॥१॥ त्रयं श्रयं त्रिर्मुखदृक्छरस्सु ३-९, द्वयानि वामे २ तरबाहु २ कंठे २-१५ । पञ्चरसि स्यु २० स्त्रितयं च गुह्ये २३, चत्वारि चढ्योः २७ कुजचक्रमेतत् ॥ १ ॥ कीर्ति शिरसि नेत्रे लाभं चरणयोर्भ्रमम् । गुह्येऽन्यस्त्रीरति दत्ते कुजः शेषेषु चाशुभम् ॥२॥ इतिभौमनरः ॥२॥ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy