SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ८६ । दीर्घक्लेशोऽथवेति जन्माधानत्रिपञ्चसप्तमतारासु दीर्घक्लेशः तत्सद्भावे तु मृत्युरित्यर्थः । यल्लल्लः ग्रहान्तरप्रातिकूल्याभावे यद्यपि स्याबली चन्द्रस्तारा तथाप्यनिष्टदा | जन्माधाने तृतीया च पञ्चमी सप्तमी तथा ॥ १ ॥ शेषासु तु तारासु व्याधिः साध्यो नृणां भवति जातः । व्याधिवदवबोद्धव्याः सर्वारंभाश्च तारासु ॥ २ ॥ 93 आरम्भ-सिद्धिः 46 अत्र यात्रादिषु चन्द्रः शुभावस्थो विलोक्यते इति रत्नमालाभाष्ये उक्तमित्यतश्चन्द्रावस्थाः प्राह - चन्द्रावस्था प्रोषित १ हृनर मृत३ जय ४ हास ५ हर्ष ६ रति ७ निद्रा:८ । मुक्ति ९ जरा १० भय ११ सुखिता १२ राश्यंशा द्वादश यथार्थाः ।। ४९ ।। "" व्याख्या:- - यदा यावद्घटीमानश्चन्द्रस्येष्टराशिभोगः स्यात्तदा तावान् टिप्पनकं विलोक्य निर्णेयः । यथा सामान्येन पञ्चत्रिंशदधिकशत १३५ मितस्येन्दो राशिभोगस्य द्वादशभिर्भागे एकादश घठ्यः पञ्चदश पलानि च स्युः । इष्टसमये च पञ्चत्रिंशदधिकशतमध्ये यावत्यो घट्यो भुक्ताः स्युस्तासां सपादैरेकादशभिर्भागे यल्लब्धं ता भुक्ताः, शेषाङ्गेन भुज्यमानद्वादशांशा ज्ञेयाः । अत्र च सामान्योक्तेऽप्ययं भावः:- राशौ राशौ द्वादशांशरीत्या इन्दुर्द्वादशावस्था भुङ्क्ते । उक्तं च यतिवल्लभे 66 राशौ राशौ द्वादशामूर्भुङ्क्तेऽवस्थाश्च चन्द्रमाः । द्वादशांशक्रमात्सांहिद्वचहेनाख्या सहक्फलाः " ॥ १ ॥ ततोऽयमर्थः मेषे स्थितस्येन्दोः प्रोषितात आरभ्य द्वादशावस्था गण्याः । वृषस्थस्य तु हृतातः, मिथुनस्थस्य मृतात इत्यादि यावन्मीनस्थस्य सुखितात इति लोकव्यवहारोक्तं रत्नमालाभाष्ये । यथार्था इति स्वस्वसंज्ञा सडक् फलदा इति भावः । तेन प्रोषित १ हृत २ मृत ३ निद्रा ४ जरा ५ भया ६ ख्याः षडवस्थास्त्याज्या इति नारचन्द्रटिप्पण्यां । अत एव दिनशुद्धावप्युक्तम् p पइरासि बारसंसा असुहाओ चए जओ सुहो विससी । आहिं होइ असुहो, सुहाहिं असुहो वि होइ सुहो" ॥ १ ॥ Aho! Shrutgyanam
SR No.034191
Book TitleArambh Siddhi Satik
Original Sutra AuthorN/A
AuthorUdayprabhdevsuri, Jitendravijay
PublisherLabdhisuri Jain Granthmala
Publication Year1942
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy