________________
मलय
चरित्रं
॥४५॥
तव ॥७३॥ निशम्य वलितग्रीवं सुधासममिदं वचः। तं दृष्ट्वा सा ह्रिया जज्ञे हसंती द्रागधोमुखी ॥७४|| कुमारेणोदितं चित्त-सर्वस्वं मे त्वयार्पितं । श्लोकयुग्मेन यत्पृष्टं मत्स्वरूपं च तत् श्रुणु ॥७५॥ पृथ्वीस्थानपुरे रम्ये सूरपालनरेशितुः । देवीपद्मावतीजातः पुत्रो नाम्ना महाबलः ॥ ७६ ॥ देशस्य दर्शनायात्र परिवारसमन्वितः । सर्वामलकलावास आगतोऽहं वरानने!॥ ७७ ॥ युग्मं । इमामाश्चर्यसंपूर्णी नगरीमवलोकयन् । तव प्रासादमूलेऽत्र प्रदेशे यावदागमं ॥ ७८ ॥ तावत्तव ममाप्येष संजातो दृष्टिमेलकः । दर्शयन् कमपि स्नेहं मिथो जन्मांतरोद्भवं ॥ ७९ ॥ अतःपरं च यज्जातं तदत्र प्रकटं तव । प्रविश्य संकटेऽप्यत्र मिलितोऽस्मि तवाधुना ॥ ८॥ तदहं यामि येनाशु प्रयाणं संभविष्यति । परिवारजनः सों मुक्तः सज्जीभवन्मया ॥१॥ सोचे सुभगागंतव्यं न त्वया स्थेयमत्र तु। | तवाऽदर्शनतो येना-हं प्राणान् धर्तुमक्षमा ॥ ८२ ॥ यदि यास्यसि त्यक्वा मा-मवज्ञायातिनि-|
ष्ठुरः । त्वया सुभग! दातव्य-स्तन्मे प्राणजलांजलिः ॥८३॥ तत्प्रसीदात्र तिष्ट त्वं संपूरय ममे|प्सितं । यावत्पश्याम्यहं त्वां मे तावत्सुभग निर्वृतिः ॥ ८४ ॥ अन्यच्चाहमिहातिथ्यं किं करोमि
॥४५॥