________________
मलय
॥४४॥
98416604460
यंतीति कुमारस्य दिव्यरूपेण मोहिता । नरेंद्रवल्लभा वक्तुं प्रारेभे तं प्रतीति सा ॥ ६३ ॥ त्रिभिविशेषकं || भो भो नरोत्तमागच्छ त्वमास्थात्रासने वरे । मां मानय च निःशंकं मम पूरय वांछितं ॥ ६४ ॥ कुमारश्चिंतयामास किमेषा राजवल्लभा । राजस्वसाथ किं नूनं राज्ञी वेयं विचार्यते ॥ ६५ ॥ यद्यात्मा मुच्यते स्वैरं प्रविष्टेः स्थान ईदृशि । नारीभिर्मुह्यते ब्रह्मव्रतं स्वस्य च खंड्यते ॥ ६६ ॥ तदा समीहितं कार्यं साध्यते नोत्तमैर्नरैः । इति निश्चित्य हृदये कुमारस्तामभाषत ॥ ६७ ॥ योग्यं मलयसुंदर्या लात्वाहं किंचिदागतः । तद् ब्रूहि सत्वरं राज्ञः सा कन्या कुत्र तिष्ठति ॥ ६८ ॥ पश्चागणिष्यसि त्वं यत्करिष्येऽहं तदेव हि । इत्युक्ते दर्शितो मार्ग ऊर्ध्वभूमेस्तया ततः ॥ ६९ ॥
बु
ऊर्ध्वभूमिं समारूढे कुमारे सा नृपप्रिया । अनुगम्य स्थिता द्वारे प्रच्छन्ना शृण्वती वचः ॥ ७० ॥ ययौ यावत्कुमारः स कुमारीवासवेश्मनि । तावद्ददर्श तां बालां विन्यस्तास्या | ॥ ७१ ॥ तत्रैवासनआसीनां पश्यंतीं तां दिशं मुहुः । एकाग्रमानसां किंचिद्धयायंती श्यामलाननां ॥७२॥ युग्मं ॥ कुमारेण ततः प्रोक्त- मितः पश्य मृगेक्षणे । सोऽहं पुरोऽत्र तिष्ठामि निःसृत्य हृदया
App
चरित्रं
॥४४॥