SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ * मलय ** ॥२०२॥le | यत्प्राप्तोऽयेष संयमी । प्रतिलाभ्य तदेनं स्वं करोमि सफलं जनुः ॥ ५॥ ध्यात्वेति पुरतो भूत्वा महाभक्त्या जगाद सः । गृहाणेदं पयः साधो प्रसीद त्वं ममोपरि ॥ ६॥ द्रव्यं क्षेत्रं च कालं च | * भावं ज्ञात्वा च साधुना । यथेच्छमाददे दुग्धं मदनेनार्जितं शुभं ॥७॥ मदनोऽपि तमानम्य मुनि | प्राप्तो जलाशयं । कृतार्थ मन्यमानः स्वं दत्तशेष पयः पपो॥ ८॥ उपविश्य ततो यावत्सरसो दुस्तटे * जलं । पातुं लग्नो द्रुतं तावद्गतोऽतः स्खलितक्रमः ॥ ९॥ अगाधसलिले मनो मृत्वात्र मदनः पुरे।। सुतो विजयभूपस्य जज्ञे दानप्रभावतः ॥ १०॥ दत्तं कंदर्प इत्यस्य नामधेयं क्रमेण सः । पितयुपरते पृथ्वीनाथोऽत्र नगरेऽभवत् ॥ ११ ॥ प्रियमित्रोऽथ सुंदर्या सहितो व्यलसत्पुरे । ताभ्यां च रुद्राभद्राभ्यां चक्रे वैरमनेकधा ॥ १२ ॥ अन्यदा प्रियमित्रोऽथ यक्षप्रति धनंजयं । चचाल सपरीवारः सुंदर्या प्रियया समं ॥ १३ ॥ प्राप्तो यावदवजन् मागें न्यग्रोधालंकृतां भुवं । अभ्यायांतं मुनि तावददर्शकं स सप्रियः ॥ १४ ॥ अशुभं शकुनं मुंडः संमुखोऽयं यदागतः। भविष्यत्यफला यात्रा किंचिच्चान्यदमंगलं ॥ १५ ॥ जल्पंतीति प्रिया तस्य सुंदरी वाहनं निजं । परिवारं च संस्थाप्यो ॥२०२॥ *-16-%88 PAPER
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy