SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ मलय ॥२०१॥ 400100६६ प्रियसुंदरीं । कामार्थ याचमानः स प्रियमित्रेण वीक्षितः ॥ ९४ ॥ ततः क्रुद्धेन सर्वं तहांधवानां चरित्रं निवेद्य तत् । निर्भर्त्स्य बहुधा तेन नगरान्निर्वासितः ॥ ९५ ॥ तत्रासीनास्ततः प्रोचुः स्थविराः सर्वमप्यदः । साक्षान्नस्तदहो किंचिद् ज्ञानस्याऽविषयं न हि ॥ ९६ ॥ प्रियमित्रोयमित्येतत्प्रसिद्धमभिधानतः । गृहीतमपरैरस्मत्पुरेऽद्याप्यस्ति मंदिरं ॥ ९७ ॥ नृपः प्रोचे कथं जातः पुरान्निष्कासितोऽथ सः । गुरुरूचे चचालैकां मदनः ककुभंप्रति ॥ ९८ ॥ मूढो गच्छन्नटव्यां स निराहारो दिनद्वयं । तृतीये दिवसे प्राप मदनो गोकुलं पुनः ॥ ९९ ॥ क्षुधार्तेनामुना केऽपि चारयंतो महीत्रजं । गोपाला वीक्षिता दुग्धं प्रार्थयांचक्रिरे तथा ॥ ६०० ॥ दुग्ध्वापि तैः कृपावाद्भर्महिषीं पयसा भृतः । समर्पितो घटस्तस्मै पांथाय स्पृहयालवे ॥ १ ॥ इतो गत्वा समीपस्थं सरो दुग्धं पिबाम्यहं । इति जल्पन्ननुज्ञातो गोपैर्व्यावृतेऽथ सः ॥ २ ॥ द्वे दिने क्षुधितोऽतिष्टमहमेतदतः पयः । कस्मैचिद्यदि दत्वा प्राग् भुज्यते सफलं ततः ॥ ३ ॥ तस्येति ध्यायतश्चित्ते गच्छतः पुण्ययोगतः । मिलितः संयमी मासोपवासी पारणाय यान् ॥ ४ ॥ अहो महांति पुण्यानि foto+ ॥२०१॥
SR No.034176
Book TitleMahabal Malaysundari Charitra
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherVithalji Hiralal Lalan
Publication Year
Total Pages224
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy