________________
मलय
॥१३५॥
30*2*3018462008-11-2008482098 48200८५१
0049136288949
द्रविणं स पुरं ययौ । पुष्टकोशोऽभवत्तेन द्रव्येण पुरुषेण च ॥ ३५ ॥ राजदचोचितद्रव्या नारी सा छिन्ननासिका । कुमारेण समं यावत्कुमारावासमाययौ ॥ ३६ ॥
तत्र तावदपश्यत् सा बालां मलयसुंदरीं । लक्ष्मीपुंजेन हारेण भूषितां हृद्यतर्कितां ॥ ३७ ॥ चमत्कृताथ सा दध्यो दुष्टैषा जीविता कथं । कथं च निःसृता कूपात्परिणीतामुना कथं ॥ ३८ ॥ पृष्टुकामापि नापृच्छत् किंचित्तत्रेति सा वशा । यदेषोक्त्वा चरित्रं मे सर्व प्रकटयिष्यति ॥ ३९ ॥ लक्ष्मीपुंजोऽपि हारोऽयमानीयास्यै समर्पितः । पापायै मम वैरिभ्यां ताभ्यां काभ्यामपि द्रुतं ॥ ४० ॥ न ज्ञायतेऽथवैताभ्यामेवैष मम पार्श्वतः । हारः केनाप्युपायेन तदाग्राहि नदीतटे ॥ ४१ ॥ तन्नूनं | वैरिणावेतौ मम दुष्टावुभावपि । ध्यायंतीमिती तामेवमूचे मलयसुंदरी ॥ ४२ ॥ अनश्रेयं कुतो वृष्टि| स्त्वमं त्रैकाकिनी कथं । दुःस्थावस्था कथं युष्मन्नासाया इयमीक्ष्यते ॥ ४३ ॥
इतश्चोक्तं कुमारेण पृष्टव्यं न प्रिये! त्वया । ज्ञातमस्ति मया सर्वं कथयिष्याम्यहं तव ॥ ४४ ॥ ॥१३५॥ अलं कालविलंबेन त्वं याहीत्यनुगम्य तां । कुमारः कनकवतीं गृहं शून्यमदीदृशत् ॥ ४५ ॥ चिचे
चरित्रं