________________
मलय
चरित्रं
24-241-2354-,
॥१३४॥
8%
धनंजयस्य यक्षस्यासन्नगोलानदीतटे । प्राप्ताकृष्य बहिश्चके लोभसारेण दस्युना ॥ २४ ॥ भक्त्वा तालकमुद्घाट्य द्वारं यावद्विलोकितं । तावद् दृष्टा गृहीता च तेनाहं वस्त्रसंयुता ॥ २५॥ नीत्वाऽलंबगिरौ तेन विषमे क्वापि कंदरे । एकत्र दर्शयांचके गुप्तं मे निजमंदिरं ॥ २६ ॥ पुरलक्ष्मीः सम. स्तापि नीत्वा क्षिप्तास्ति तत्र या । दर्शिता सापि मे तेन बहुमानपुरस्सरं ।। २७ ॥ नामादि कथितं सर्व मिथः स्नेहेन तेन त । तथा व्यवहतं चित्तं यथा में तत्र संस्थितं ॥ २८॥ स्थित्वा
यामयुगं सोऽत्रागतः कार्येण केनचित । प्रापि क्वापि नरेंद्रेण हताशः पश्यतोहरः॥ २९ ॥ राज्ञा al गोलातटेऽलंबशैलमूलेऽथ तस्करः । सायमुबंधयांचके तत्र न्यग्रोधपादपे ॥ ३० ॥ मया दृष्टोऽद्रिहै। शृंगाग्रस्थितया स ततो निशि । गताहं तत्र शोकेन रुदती मिलिता च ते ॥ ३१ ॥ अतः परं च
यजातं तत्र तत्प्रकटं तव । इत्येष मम निःशेषो वृत्तांतो राजनंदन ॥ ३२ ॥ गृहाण द्रविणं तत्त्वं स्थानं तदर्शयाम्यहं । अथाचख्यौ तया साई गत्वा राज्ञेऽखिलं स तत् ॥ ३३ ॥ पुरुस्कृत्याथ तां भूपो गत्वा तत्र च सत्वरं । यस्य यद्वस्तु तत्रामृत्तस्मै सर्व तदार्पयत् ॥ ३४ ॥ प्रभूतं शेषमादाय
AA
-E-*
१३४॥