________________
अवमद्ममालववधूजघन - स्तनघातशान्तजलवेणिजवा । अपनीतचन्दनविलेपन कैर्घवलीकृता सुरनदीव नवा ॥ २ ॥
तस्यां नयां मत्सीकुक्षिसम्पुटे कर्म्मवशादहं रोहितमत्स्यत्वेनोत्पन्नः । तत्राहं खरूपेण अण्डजः, पक्षद्रययुक्तो, रक्तवर्णः, खजातिमांसभक्षकः, कामलम्पटो, महापापी, तत्रैव तन्मयत्वेन मोहितो विस्मृतजन्मान्तरः, इतस्ततो गतिविशेषैस्तां नदीमवगाहमानः पश्यतां लोकानां खदिरस्तम्भभ्रमम् उत्पादयन् खेच्छया कालमनैषम् । अथ स जननीजीवोऽपि सर्पभवाद् मृत्वा तस्यामेव महानद्यां जलचरजातौ शतसहस्रतन्तुमान् महान् प्राहोऽभूत् । एकदा स पापी मां रोहितमत्स्यं दृष्ट्वा खतन्तुजालं विस्तार्य तैः सर्वतो रुद्धबान् । तत्रैवावसरे मदोद्धताश्चपलगामिन्यस्तस्या नयनावल्या दास्यो मज्जनार्थ नदीतटे समाजग्मुः । तासां मध्ये एका चिठाती नाम चश्वला दासी विगलितवस्खा सती मदाधिक्यात् प्रथमं झम्पां ददौ । तदा स प्राहः कोपाटोपाद् रक्तलोचनः सन् मां विमुष्य सद्यस्तां चेटीं जग्राह । ततो 'हा ! गृहीताऽस्मि गृहीतास्मि भो भो लोका धावत धावत, मामस्माद् दुष्टजन्तोर्मोचयत मोचयत' । इत्याराटिं कुर्वाणा सा निक| टबर्तिपुरुषैः शीघ्रं सम्मिल्य धृता । तदा धीवरैस्तत्र सर्वतो जालं प्रक्षिप्य प्रौढशरीरः स प्राहजन्तुर्नद्यास्तीरे आकृष्य छंविच्छेदं लेट्टु - कुठार- लकुटादिप्रहारैर्विविधकदर्थनया मारितः । अहं तु तत्रैव नदीतटे १ शरीरच्छेदम्-1